________________
३१
द्वितीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । भाग्यसेननृपः पद्मोपमां पद्मावती सुताम् । मेघसेनस्त्वश्वसेनां वार्ष्णेयाय ददौ तदा ॥३७९॥ पद्मावत्यश्वसेनाभ्यां रन्त्वा तत्र चिराय सः । जगाम भद्दिलपुरे नगरे वृष्णिनन्दनः ॥३८०॥ पातत्राऽपुत्रविपन्नस्य पुण्डुराजस्य कन्यकाम् । पुण्ड्रां नृरूंपामौषध्या राज्यं पान्ती ददर्श सः ॥३८१।।
वार्ष्णेय: स्त्रीति तां ज्ञात्वा सानुरागामुपायत । पुण्ड्रो नाम सुतस्तस्यां जज्ञे राजा च सोऽभवत् ॥३८२॥ पाखेचरोऽङ्गारकस्तत्र रात्री हंसॉपदेशतः । हृत्वा चिक्षेप गङ्गायां समुद्रविजयानुजम् ।।३८३।। प्रातः शौरिददर्शेलावर्धनं नामतः पुरम् । तत्राऽट्टे सार्थवाहस्योपाविशत् तदनुज्ञया ॥३८४।। तत्प्रभावात् तस्य लाभे हेमलक्षमजायत । सोऽपि ज्ञात्वा तत्प्रभावं गौरवादाललाप तम् ॥३८५।। तं स्वर्णरथमारोप्य सार्थवाहोऽनयद् गृहे । अथ रत्नवती कन्यां तेनं स्वां पर्यणाययत् ॥३८६।। पाजाते शक्रमहेऽन्येद्यः श्वशुरेण सहैव सः । दिव्यं स्यन्दनमारूढो महापरपरे ययौ ॥३८७॥ बहिः पुराच्च प्रासादान् नूतनान् प्रेक्ष्य यादवः । पप्रच्छ श्वशुरं किं नु द्वितीय कमिदं पुरम् ? ॥३८८॥ सार्थवाहोऽवदत् सोमदत्तोऽत्राऽस्ति महीपतिः । मुखश्रियाऽतिसोमश्रीः सोमश्रीस्तस्य कन्यका ॥३८९॥ तस्याः स्वयंवरकृते प्रासादाः कारिता इमे । आहूताश्च नृपा भूयो विसृष्टास्तदीटवात् ॥३९०।। श्रुत्वेति यादवो गत्वा शक्रस्तम्भं नमोऽकरोत् । तं नत्वा राजशुद्धान्तोऽप्यचलत् पूर्वमागतः ॥३९१।। तदा चाऽऽलानमुन्मूल्य तत्राऽऽगाद् भूपतेद्विपः । रथाद्राजकुमारी च पातयामास भूतले ॥३९२।। दीनामशरणां शौरिस्तां प्रेक्ष्य शरणार्थिनीम् । स्थित्वाऽग्रेऽतर्जयदिभं प्रतिकार इव स्वयम् ॥३९३।। तां त्यक्त्वा यादवायेभो दधावे क्रोधदुर्धरः । खेदयामास तमिभं यादवोऽपि महाबलः ॥३९४।। मोहितेभो यादवस्तामादायैकत्र वेश्मनि । नीत्वा चाऽऽश्वासयामासोत्तरीयपवनादिना ॥३९५॥ धात्रीभिः सा गृहे निन्ये शौरिस्तु श्वशुरान्वितः । कुबेरसार्थवाहेन गौरवान्निजवेश्मनि ॥३९६।। तत्र शौरिः स्नात-भुक्तोऽस्थाद्यावत्तावदागता । जयाशी:पूर्वकं राजप्रतीहारीदमब्रवीत् ॥३९७|| भूपतेः सोमदत्तस्य सोमश्रीर्वरकन्यका । स्वयंवरे वरस्तस्याः किल स्यादित्यभूत् पुरा ॥३९८|| परं सर्वाणयतिनोऽभ्यागतान् केवलोत्सवे । पश्यन्त्यास्त्रिदशांस्तस्या जातिस्मृतिरजायत ॥३९९।। ततः प्रभृत्यसौ मौनमालम्ब्याऽस्थान्मृगेक्षणा । मया रहसि चाऽन्येद्युः पृष्टा सत्येवमब्रवीत् ॥४००। पाआसीद् देवो महाशुक्रे भोगास्तेन मया सह । अतिवल्लभया भुक्ताः सुचिरं तत्र जन्मनि ॥४०१॥ मयैव सह सोऽन्येधुर्यात्रां नन्दीश्वरादिषु । कृत्वाऽर्हज्जन्मोत्सवं च स्वस्थानाय न्यवर्तत ॥४०२॥ यावच्च ब्रह्मलोकेऽगात् तावदच्योष्ट सोऽमरः । शोकात तं च मार्गन्ती भरतेऽत्र कुरुष्वगाम् ॥४०३॥ केवलज्ञानिनौ तत्र दृष्ट्वाऽपृच्छं दिवश्च्युतः । क्व मे पतिः समुत्पन्नः ? ततस्तावेवमूचतुः ॥४०४॥ हरिवंशे तव पतिः प्रादुर्भूतो नृपोलये । त्वमपि प्रच्युता स्वर्गाद राजपुत्री भविष्यसि ॥४०५।। यदा शक्रमहे च त्वां कुञ्जरान्मोचयिष्यति । स तदानीं पुनरपि पतिस्तव भविष्यति ॥४०६॥ तौ वन्दित्वा भक्तिपूर्वं स्वस्थानमगमं तदा । क्रमाच्च्युत्वाऽहमुत्पन्ना सोमदत्तस्य कन्यका ॥४०७|| - सर्वाणकेवले देवान् दृष्ट्वा जातिस्मृति गता । एतदज्ञासिषं तस्मात् कृतं मौनमिदं मया ।।४०८।। एतत् तस्या वचः सर्वं मया राज्ञे निवेदितम् । राज्ञा विसृष्टाश्च नृपाः स्वयंवरसमागताः ॥४०९।। प्रत्ययश्चाऽभवत् तस्या मोचितायास्त्वया द्विपात् । त्वामानेतुं प्रेषिताऽस्मि तदेाद्वह वीर ! ताम् ॥४१०॥ तया सह ततो गत्वा वसुदेवो नृपौकसि । सोमश्रियमुपायंस्त रेमे च स तया समम् ॥४११।। १. भद्रिल० खं० १, ला० । २. पुंद० मु० । ३. पुंदा मु० । ४. नृरूपेणौ० खं० २ । नृरूपामोष० मु०र. । ५. पाती खं० १-२, ला०सू० । ६. पुंदो मु० । ७. हंसरूपं गृहीत्वा । ८. लाभो मु० । ९. तेनासौ सू० । १०. इन्द्रमहोत्सवे । ११. द्वितीयीक० खं० १-२ । द्वैतीयीक० सू० । द्वितीयं किमिदं मु० । १२. तेषां नृपाणां अपाटवात्-अनैपुण्यात् । १३. राज्ञोऽन्तःपुरस्त्रियः । १४. नीत्वा सा० मु० । १५. नृपान्वये की०पु० । १६. राज्ञः पुत्री मु० । १७. भविष्यति खं० २ । १८. धीर खं० १ । १९. तत्र तया सह मु० । च स तया सह सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org