Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 361
________________ त्वरिपतुः श्रीयनेनाऽऽप्ताऽनुपार्जितगुणे त्वयि । पितुः श्रियो न रक्ष्यन्त तनयैरपि निर्गुणैः ॥ ४७४ ॥ अजल्प कपिलो मातस्तरधीये गुणाशंदन साऽवासी सोन्यत्र कोऽध्यापयिष्यति ॥ ४७५ ॥ यद्येवमपि ते धुद्धिः श्रावस्ती व्रज तत्पुरीम् । तत्रास्ति त्वत्पितुर्मिश्रमिन्द्रदत्त इति द्विजः ॥ ४७६ ॥ विद्यार्थिनं पुत्रमिव त्वामायातं स सर्ववित् । प्रीतः पितृसमं वत्स ! कलापूर्ण करिष्यति || ४७७ ॥ गत्वेन्द्रदत्तं कपिलो नत्वा च स्वमजिज्ञपत् । उवाच चाध्यापय मां तातान्यः शरणं न मे ॥ ४७८ ॥ उपाध्यायोऽप्यभिदधे भ्रातुषपुत्रोऽसि मे खलु । विद्यामनोरथे नैयं न पिता हेपितस्त्वया ॥ ४७९ ॥ वच्मि किं त्वहमातिथ्येऽप्यशक्तो निष्परिग्रहः । अध्यस्मचागतस्येह क नु ते नित्यभोजनम् ॥ ४८० ॥ | अभोजनस्य च व्यर्थ एव पाटमनोरथः । विना हि भोजनं वत्स मुरजोऽपि न गुंजति ॥ ४८१ ॥ कपिलोऽप्यलपत्तात! भोजनं भावि भिक्षया। भिक्षा देहीति सिद्धं हि मौजीबन्धाद् द्विजन्मनाम् ४८२ हस्त्यारूदोऽप्यग्रजन्मा भिक्षमाणो न लज्जते । भिक्षाधरश्च राजेव नाधीनः कस्यचित् कचित् ॥ ४८३॥ इन्द्रदत्तोऽवदद्वत्स ! भिक्षा श्रेष्ठा तपस्यताम् । तवैकाऽप्यलब्धायां तस्यामध्ययनं कुतः १ ॥ ४८४ ॥ इत्युक्त्वा स द्विजो घालं तमालम्ब्य स्वयाहुना । शालिभद्रमहेभ्यस्य सवः सदनमासदत् ॥ ४८५॥ ॐभूर्भुवः स्वरित्यादि गायत्रीमुच्चकैः पठन् । अजिज्ञपद् द्विजन्मानमात्मानं स बहिःस्थितः ॥ ४८६ ॥ । नैव ॥ -- - - - - -- - - - - - -- -

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439