Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
HAMPA
নীয়: सनः
%95
रनिद्वयप्रमाणांगा विंशत्यब्दायुषश्च ते । तपो दुष्पसहादीनां चतुर्णा षष्ठमुत्कटम् ॥ १४८ ॥ दशवकालिकभनः स चतुर्दशापूर्ववित् । प्रबोधयिष्यति संघं तीर्थ दुष्प्रसहावधि ॥ १४ ॥ ततोऽर्वाग्वयति धर्मो धर्मो नास्तीति यः पुनः । वदिष्यति स संघेन कर्नव्यः संघतो बहिः ॥ १० ॥ द्वादशाब्दी गृहे नीत्वाऽष्टाब्दी दुष्प्रसहो व्रते । पर्यन्तेऽष्टमभक्तेन सौधर्म कल्पमेष्यति ।। १५१ ॥ पूर्वाहेऽथ चरित्रस्य समुच्छदो भविष्यति । मध्याहे राजधर्मस्यापराह्न जातवेदसः ॥ १५२ ॥ इत्यं च दुषमा वर्षसहस्राण्येकविंशतिः । एकान्तदुःषमाकालोऽप्यमानो भविष्यति ॥ १५३ ।। धर्मतत्त्वे प्रणष्टेऽथ हाहाभूतो भविष्यति । पशुवन्मातृपुत्रादिव्यवस्थावर्जितो जनः ॥ १५४ ॥ परुषाः पाशुभूयांसोऽनिष्टा वास्यन्ति वायवः । दिशश्च धूमायिष्यन्ति भीषणाश्च दिवानिशम् ॥ १५ ॥ इन्दुः स्रक्ष्यत्यनिशीतं तप्स्यत्यत्युष्णमर्यमा । अतिशीतोष्णाभिहतो लोकः क्लेशमवाप्स्यति ॥ १५६ ॥ तदा च विरसा मेघाः क्षारमेघालमेघकाः । विषाग्न्यशनिमेघाश्च वर्षिष्यन्त्यात्ममन्निभम् ।। १५७ ।। येन भावी कासः श्वासः शूलं कुष्ठं जलोदरम् । ज्वरः शिरोऽर्तिरन्येऽपि मनुष्याणां महाऽऽमयाः ॥१८॥ दुःखं स्थास्यन्ति तिर्यची जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणक्षयः ।। १५९ ॥ वैताख्यऋषभकूटगंगासिन्धूर्विमुच्य च । समीभविष्यत्यखिलं गिरिगर्ताऽऽपगादिकम् ॥ १६० ।।
१ मुत्कटःDI
Loading... Page Navigation 1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439