Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
चौराः पीडयत्युर्वी भूषणः करेण तु । श्रेण्यो भूतग्रहप्राया लंबालुब्धा नियोगिनः ॥ १३५ ॥ भावी 'विरोधः स्वजने जनः स्वार्थेकतत्परः । परार्थविमुखः सत्यलज्जादाक्षिण्यवर्जितः || १३६ ।। गुरूनाराधयिष्यन्ति शिष्याः शिष्येषु तेऽपि हि । श्रुतज्ञानोपदेशं न प्रदास्यन्ति कथंचन ॥ १३७ ॥ एवं गुरुकुलवासः क्रमादपगमिष्यति । मन्दा धीर्भाविनी धर्मे बहवाऽऽकुला च भूः ॥ १३८ ॥ न साक्षाद्भाविनो देवा विमस्यन्तं सुताः पितॄन् । सर्पभूताः स्नुषाः श्वश्र्वः कालरात्रिसमाः पुनः ॥ १३९ ॥ हविकारैः स्मितैर्जल्पैर्विला सैरपरैरपि । वेश्यामनुकरिष्यन्ति त्यक्तलज्जाः कुलस्त्रियः ॥ १४० ॥ श्रावकश्राविकाहानिश्चतुर्धा धर्मसंक्षयः । साधूनामथ साध्वीनां पर्वस्वप्यनिमंत्रणम् ॥ १४१ ॥ कूटतुला कूटमानं शाव्यं धर्मेऽपि भावि च । सन्तो दुःस्थीभविष्यन्ति सुस्थाः स्थास्यन्ति दुर्जनाः ॥ १४२॥ मणिमंत्रौषधीतंत्रविज्ञानानां धनायुषाम् । फलपुष्परसानां च रूपस्य वपुरुन्नतेः ॥ १४३ ॥ धर्माणां शुभभावानां चान्येषां पंचमे रे । हानिर्भविष्यति ततोऽप्यरे पष्ठेऽधिकं खलु ॥ क्रमादेवं श्रीयमाणपुण्ये काले प्रसर्पति । घमें धीर्भाविनी यस्य सफलं तस्य जीवितम् ॥ आचार्यो दुःप्रसहाख्यः फल्गुश्रीरिति साध्यपि । श्राषको नांयिलो नाम सत्यश्री श्राविका पुनः ॥ १४६॥ विमलवाहन इति रापमंत्री सुमुखाभित्रः । अपश्चिमा भाविनोऽमी दुःषमायां हि भारते ॥ १४७ ॥ विरोधी CL.M. २ नायिये / नागिलो M ॥
१४५ ॥
१४४ ॥
॥ ३९३ ॥
Loading... Page Navigation 1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439