Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 420
________________ तृतीयो घृतमेघाख्यः स्नेहं संजनयिष्यति । तुर्यस्त्वमृतमेघाख्य ओपध्यादि करिष्यति ॥ १७ ॥ पृथ्यादीनां रसं का रसमेघश्च पंचमः । पंचविंशहिनी वृष्टि विनी सौम्यदुर्दिना ॥ १७६ ॥ द्रुमौषविलतावल्ली हरितादि निरीक्ष्य च । पिलेभ्यो निःसरिष्यन्ति मुदिना बिलवासिनः॥ १७७ ।। ने वक्ष्यन्ति भरतभूरभूत् पुष्पफुलादिभृत् । भक्ष्यं नाऽतः परं मांसं त्याज्यो मांसादकश्च यः ॥ १७८॥ | यथा ययष्यति कालो वस्यति हि तथा तथा । रूपसंहननायूंषि धान्यादीनि च भारते ॥ १७९ ।। भविष्यन्ति सुखा वाता ऋतवः सलिलानि च । निर्यश्चश्च मनुष्याश्च गतरोगाः क्रमेण च ॥ १८ ॥ दुःषमान्ते भविष्यन्ति मध्येप्राम्भरतावनि | कुलफराः सप्त तत्राऽऽदिमो विमलवाहनः ॥ १८१॥ सुदामा संगमश्चापि सुपार्थश्च चतुर्थंकः । दत्तश्च सुमुखश्चैव संमुचिश्चेति ते क्रमात् ॥ १८२॥ तत्र जातिस्मरः पूर्वी नाना विमलवाहनः । निवेशयिष्यति ग्रामपुरादीन राज्यहेतवे ॥ १८३ ॥ संग्रहीष्यति गोगजाऽश्चायथ व्यञ्जयिष्यति । शिल्पानि ब्यवहारं च लिपीश्च गणितादि च ॥ १८४॥ । उत्पन्ने दुग्धदध्यादौ सस्येषु ज्वलनेऽपि च । हितकामी स प्रजानां रन्धनागुपवेक्ष्यति । १८५ ॥ दुःषमायामतीतायां शतद्वारे महापुरे । भद्रानाम्न्यां महादेव्यां संमुः पृथिवीपतेः ॥ १८६ ॥ नन्दनः श्रेणिकजीवो भविष्यत्पादितीर्थकृत । पद्मनाभाभिधस्तुल्यो जन्ममानादिना मम ॥ १८७ ॥ १"कामः । कारी ||

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439