Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 419
________________ YYYLYRIVARIKUMAUM अंगारमभराभा भूर्भस्मरूपा भविष्यति । कदाचिद् धूलिबहला कदाचित्सान्द्रकर्दमा ॥ १६१ ॥ रनिमानपुरुषांगा दुर्वर्णा निष्ठुरोक्तयः । रोगार्ताः क्रोधना उच्चघाटाश्चिपिटनासिकाः ॥ १६२ ॥ निर्लज्जा वस्त्ररहिता भविष्यन्ति नराः स्त्रियः । आयुर्विशतिरब्दानि नृणां श्रीणां तु षोडश ॥ १६३ ॥ गर्भ वक्ष्यति षड्वर्षा स्त्री दुःखप्रसवा तदा । स्थविरा षोडशाब्वा च भूयिष्ठसुतनष्तृका ॥ १६४ ॥ भाविनो विलधासाश्च गिरी वैतात्यनामनि । द्वासप्ततिर्नाभयतटभूषु बिलानि तु ॥ १६५ ।। कूले कूल कूलिनीनां बिलानि नव तत्र च । तिर्यश्चस्तु भविष्यन्ति बीजमानतयैव हि ॥ १६६ ॥ पललाहारनिरता नृशंसा निर्विवेककाः । तदानीं च भविष्यन्ति मनुष्याया अशेषतः ॥ १६७ ॥ तदा रथपथमात्रं गंगासिन्धुनदीजलम् । प्रवक्ष्यति चलन्मत्स्यकच्छपादिभिराचितम् ।। १६८ ॥ तत्रेय निशि मत्स्यादीन् कृष्ट्वा मोक्ष्यन्ति च स्थल । दिवा सूर्यत्विषा पकान खादिष्यन्ति निशाऽन्तरे एवं सदाऽपि भोक्ष्यन्ते यहध्यादि नदा न हि | न पुष्पं न फलं नान्नं न च शय्याऽऽसनादिकम् ।। १७० ॥ भरतैरवतेष्वेवं दशस्वपि हि दुःषमा । तथाऽतिदुःषमाऽप्येकविंशत्यब्दसहस्रिका ।। १७१ ॥ असे याववसर्पिण्यामन्त्योपान्त्यावुभौ च तौ । उत्सर्पिण्यां स्वकीयानुभावावायद्वितीयको ।। १७२ ॥ उत्सर्पिण्यां दुःषमदुःषमान्तसमयेऽम्बुदाः। भाविनः पश्च सप्ताहवर्षिणस्ते पृथक् पृथक् ॥ १७ ॥ तम्राद्यः पुष्करो नाम महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो धान्यान्युत्पादयिष्यति ॥ १७४ ॥ ॥

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439