Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 424
________________ त्रयोदशः सर्गः LNEPALNPANY.LAPALNAWALPAL प्रतिपालय तनाथ ! तस्य संक्रमणक्षणम् । स यथा त्वत्प्रभावण विफलो भयनि ग्रहः ॥ २२९॥ कुस्वमाः कुशकुनानि दुर्घहा यान्ति शस्तताम् । अन्येषामपि सर्वेषां हृदि त्वां धारयन्ति य ।। २२० किं पुनर्यत्र साक्षात्त्वं स्वामिन् ! समयतिष्ठसे । प्रसीद तत् क्षणं तिष्ठ दुग्रहोपशमोऽस्तु तत् ॥ २३१ ।। स्वाम्यथोचे न कोऽप्यायुः शक्र ! सन्धातुमीश्वरः । विदन्नपि बदस्येवं किं तीर्थप्रेममोहितः ॥ २३२ ॥ प्रवर्तनाद् दुःषमागास्तीर्थवाधा भविष्यति । भवितव्यताऽनुसारागस्मकस्योदयोऽग्यभूत् ॥ २३३ । वत्रिणं बोधयित्वैवं सार्वषण्मासवार्जताम् । त्रिंशवदी केवलित्व परिपाल्य जगद्गुरुः ।। २३४॥ पर्यकासननिषण्णो योगे कायस्य चादरे । स्थितो वाऊमनसयोगावरीत्मीदथ धादरौ ॥ २३५ ।। सूक्ष्म च वपुषो योगमास्थाय परमेश्वरः । रुरोध यादरं काययोग योगविचक्षणः ॥ २१॥ नौ च सूक्ष्मौ वाङ्मनसयोगावप्यरुणत्प्रभुः । इति सूक्ष्मक्रियं शुक्लध्यानं चक्र तृतीयकम ॥ २३७ ॥ अपि सूक्ष्म तनूयोग विनिरुध्य जगद्गुरुः । समुच्छिन्नक्रिय शुक्लध्यानं तुर्य दधावथ ॥ २३८ ॥ पंचहस्वाक्षरोचारमिनकालेन तेन तु। ध्यानेन तुयण तुर्भपुमान्यभिचारिणा ।। २३१॥ एरंडषीजवदन्धाभावादृर्ध्वगतिः प्रभुः । पथा स्वभावऋजुना मोक्षमेकमु(उ)पाययौ ॥२४॥ नारकाणामपि तदा क्षणमेकमभूत् सुखम् । न ये सुख लवस्यापि कदाचिदपि भाजनम् ॥ २४१ ॥ घत्सरोऽभूत्तदा चन्द्रो मासस्तु प्रीतिवर्धनः । नन्दिवर्धनका पक्षोऽग्निवेशो नाम वासरः ॥ २४२ ।। ॥४००

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439