________________
त्वरिपतुः श्रीयनेनाऽऽप्ताऽनुपार्जितगुणे त्वयि । पितुः श्रियो न रक्ष्यन्त तनयैरपि निर्गुणैः ॥ ४७४ ॥ अजल्प कपिलो मातस्तरधीये गुणाशंदन साऽवासी सोन्यत्र कोऽध्यापयिष्यति ॥ ४७५ ॥ यद्येवमपि ते धुद्धिः श्रावस्ती व्रज तत्पुरीम् । तत्रास्ति त्वत्पितुर्मिश्रमिन्द्रदत्त इति द्विजः ॥ ४७६ ॥ विद्यार्थिनं पुत्रमिव त्वामायातं स सर्ववित् । प्रीतः पितृसमं वत्स ! कलापूर्ण करिष्यति || ४७७ ॥ गत्वेन्द्रदत्तं कपिलो नत्वा च स्वमजिज्ञपत् । उवाच चाध्यापय मां तातान्यः शरणं न मे ॥ ४७८ ॥ उपाध्यायोऽप्यभिदधे भ्रातुषपुत्रोऽसि मे खलु । विद्यामनोरथे नैयं न पिता हेपितस्त्वया ॥ ४७९ ॥ वच्मि किं त्वहमातिथ्येऽप्यशक्तो निष्परिग्रहः । अध्यस्मचागतस्येह क नु ते नित्यभोजनम् ॥ ४८० ॥ | अभोजनस्य च व्यर्थ एव पाटमनोरथः । विना हि भोजनं वत्स मुरजोऽपि न गुंजति ॥ ४८१ ॥ कपिलोऽप्यलपत्तात! भोजनं भावि भिक्षया। भिक्षा देहीति सिद्धं हि मौजीबन्धाद् द्विजन्मनाम् ४८२ हस्त्यारूदोऽप्यग्रजन्मा भिक्षमाणो न लज्जते । भिक्षाधरश्च राजेव नाधीनः कस्यचित् कचित् ॥ ४८३॥ इन्द्रदत्तोऽवदद्वत्स ! भिक्षा श्रेष्ठा तपस्यताम् । तवैकाऽप्यलब्धायां तस्यामध्ययनं कुतः १ ॥ ४८४ ॥ इत्युक्त्वा स द्विजो घालं तमालम्ब्य स्वयाहुना । शालिभद्रमहेभ्यस्य सवः सदनमासदत् ॥ ४८५॥ ॐभूर्भुवः स्वरित्यादि गायत्रीमुच्चकैः पठन् । अजिज्ञपद् द्विजन्मानमात्मानं स बहिःस्थितः ॥ ४८६ ॥ । नैव ॥
--
-
-
-
-
--
-
-
-
-
-
--
-