SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ एकादशः अभ्योऽप्याहय त विप्रभूच कि याचस ननु । स ययाचे बटोरस्य प्रत्यहं देहि भोजनम् ॥ ४८७ ।। इभ्योऽपि प्रतिपदे तद् भुक्त्वा भुक्त्वाऽय तद्गृहे । उपेद्रदत्तं कपिलोऽधिजगे प्रतिवासरम् ।। ४८८ ॥ शालिभद्रगृहे भोक्तुं कपिलस्य गतस्य तु । सर्वदा युवदास्येका विशिष्टं पर्यवेयषत् ॥ ४८९ ॥ युवा च हासशीलश्च स तस्यामन्वरज्यत । स्त्रीसन्निधानं यूनां हि मन्मथदुमदोहदम् ॥ ४९०॥ साऽपि तस्मिन्नभूद्रक्ता रेमाते च क्रमेण तो । दास्यायन्यमनिच्छन्ती रहस्यूचे तमन्यदा ॥ ४९१ ।। त्वमेव प्राणनाथो मे किं तु निःस्वोऽस्यतो नरम् । प्राणयात्रार्थमपरं भजे सोऽप्यन्वमन्यत ॥ ४९२ ॥ अन्येाश्च पुरे तस्मिन् दासीनामुत्सवोऽभवत् । सापि दास्याप निर्वेदं पुष्पपत्रादिचिन्तया ॥ ४९३ ॥ सां निवेदवतीं दृष्ट्वा कपिलः स्माह सुन्दरि ! । किं दृश्यसे विवर्णास्या हिमालीदेव पद्मिनी ॥ ४९४ ।। साऽख्यन्महोऽय दासीनां पुष्पपत्रादि नास्ति मे । विगोपिण्यामि मध्ये च दासीनां का गतिर्मम ॥ ४९५॥ तदुःखव्यन्तराषेशविवशः कपिलोऽपि हि । अवृत्या मौनमालम्ब्य तस्थौ दास्यप्यदोऽवदत् ॥ ४९६ ॥ मा विषीद धनोऽत्रास्ति श्रेष्ठी तं च निशात्यये । प्रयोधयति यस्तस्मै स्वर्णमाषौ ददाति सः ।। ४९७ ॥ गच्छेस्त्वमविभातायां विभावर्या तदोकसि । कल्याणिनेय ! कल्याणं पठेरकठिनोक्तिभिः ॥ ४९८ ॥ तथेति प्रतिपेदानं कपिलं प्रजिघाय सा । तस्यामेव तमस्विन्यां निशीथ धनसमनि ॥ ४९९ ॥ १' क्त्वा तु D.|| ||३३८
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy