Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
AMAVYALAYA
कपिलर्षिरवोऽवादीद्वादको नास्ति कश्चन । वायं विना कुतो नृत्तं न कार्य कारणं विना ॥ ५२६ ।। तालवाद्यमथाकार्पोराः पञ्च मानमपि ! कपिलोऽपि ननोचैर्जगी च श्रुतिशर्मदम् ॥५२७॥ दुःखानुभवभूयिष्ठे किं भवेऽस्मिन्नशाश्वते । भवेत्तत्कर्म येनाहं गच्छेयं न हि दुर्गतिम् ॥ ५२८ ॥ इत्यादिका धुवाः पश्च शतानि कपिलो जगी । सर्वाः प्राकृतबन्धेन अव्यरागेण पन्धुराः॥५२९॥ ध्रुवासु गीयमानासु कपिलेन महर्षिणा । ते चौराः प्रत्यबुध्यन्त कस्यांचित्कश्चिदेव च ॥ ३० ॥ ततः शतानि पश्चापि चौराणां स महामुनिः । पर्यत्राजयदेतद्धि दृष्टं तज्ज्ञानचक्षुषा ॥ ५३१ ॥ पुरे राजगृहे देवाधिदेषाज्ञां प्रगृह्य सः । ब्रह्मर्षिः कपिलोऽत्रैव स्वत्पुरीमस्ति पावयन् ॥ ५३२ ॥ केवल्येष स्वयंबुद्धः श्वेताम्बरशिरोमणिः । कर्ता प्रतिष्ठा कोऽप्येष पुण्यानामुदयस्तव ॥ ५३३ ॥ ततम्बाषन्तिनाथेन प्रार्थितः कपिलो मुनिः। प्रत्यष्ठात् प्रतिमां मंत्रपूतचूर्णानि निक्षिपन् ॥ ५३४ ॥ चर्चयित्वार्चयित्वा च दोामुद्धृत्य पार्थिवः। तां तद्धनो धनमिव हृद्वारे प्रतिमां दधौ ॥ ५३५॥ न्यधादनिलखेगस्य स्कन्धे तां प्रतिमा नृपः । तदन्तरासनिकवदारूढोऽधारयत् स्वयम् ॥ ५३६ ॥ दिव्याभियोगयानेभ्योऽप्यतिवेगेन पन्तिना । गत्वा वीतभये दास्यै प्रतिमां तां समार्पयत् ॥ ५३७ ॥ साऽपि तां प्रतिमा चैत्ये न्यस्यादाय पुरातनीम् । आगाहासी प्रतिमां च नृपोऽप्यारोपपद् द्विपम् ॥ ३८॥ १ नृपं 1. D. || २ देवाभि M.
%3
Loading... Page Navigation 1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439