Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 381
________________ A KHATAMATK परिव्रजन्त्या त्वमयं नन्दया कुंडलद्वयम् । क्षौमद्वयं च तदिव्यं दत्तं हल्लविहल्लयोः ॥ १०५ ।। भन्यानां प्रतिबोधाय नतश्च भगवानपि । सुरासुरैः सेव्यमानो चिजहार वसुन्धराम् ॥ १०६॥ विविधाभिग्रहपूर्व पालयित्वा चिरं व्रतम् । मृत्वा सर्वार्थसिद्धेऽभूदभयः प्रवरः मुरः॥ १०७॥ तदा श्रीवीरपादाब्जमृले प्रबजितेऽभये । इति संचिन्तयामास शुद्धधीर्मगधाधिपः ॥ १०८ ॥ अभयो हि कुमारेषु समस्तगुणभरभत । ब्रतमादाय सक्ती स तु स्वार्थमसाधयत् ॥१०९॥ कुमारे कुत्रचिदोषमन्यायुष्मति वपुष्मति । राज्यमारोपयिष्यामि क्रमो येष महीभुजाम् ॥ ११ ॥ सगुणो निगुणो वापि पुत्रोऽह: पितृसंपदाम् । सगुणः स्याद्यदि तदा पुण्यं हि पितुरुज्ज्वलम् ॥ १११ ॥ विनाऽभयकुमारेण मनोविश्रामधाम मे । कृणिको गुणवानेष राज्यमर्हति नापरः ॥ ११२॥ निश्चित्य कूणिक राज्ये सोऽवाद्धल्लविहल्लयोः । हारमष्टादशचक्रं गज सेचनकं च तम् ॥ ११३ ॥ अत्रान्तर कुमारोऽपि मंत्रयामास कूणिकः । कालादिभिः स्वसहशैर्दशभिर्धातृभिः सह ॥ ११४॥ जरनपि पिनाऽस्माकं राज्यस्य न हि तृप्यति । पुत्रे हि कवचहरे राज्ञोऽधिकुरुने व्रतम् ॥ ११५ ॥ घरं वरीयानभयः श्रियमौज्झदुवाऽपि यः। न तु तातो विषयान्धः स्वां जरां यो न पश्यति ॥ ११६ ।। नदद्य पितरं बद्ध्वा राज्यं स्वसमयोचितम् । गृह्णीमो नापवादोऽत्र विवेकविकलो हि सः ॥ ११७ ॥ 4 %A0A4 AAAAAAACHAR

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439