Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 395
________________ MMMMin मारयित्वा मारयित्वा निशि हल्लविहल्लयोः । क्षेमेण गच्छतोमंत्रिमंडली स्माऽऽह कूणिकः ॥ २९३ ।। आभ्यां विद्रुतमस्माकं प्रायेण सकलं बलम् । तद् ब्रूत क इहोपायो जये हल्लविहल्लयोः ।। २९४ ॥ मंत्रिणोऽप्यूचिरे तो हि जेतुं शक्यौ न केनचित् । अधिरूढौ हि यावत्तं हस्तिनं नरहस्तिनौ ॥ २९५ ॥ तस्मात्तस्यैव करिणो बधाय प्रयतामहे । खादिरांगारसंपूर्णा कार्यतां पथि खातिका ॥२९॥ छादयित्वा च चारीव दुर्लक्ष्या सा करिष्यते । तस्यां सेचनको वेगादभिधावन् पतिष्यति ॥ २९७ ॥ चंपेशोऽकारयदथ खादिरांगारपूरिताम् । खातिकामुपरिच्छन्नां सदागमनवमनि ॥२९८ ॥ अथ हल्लविहल्लावण्यवस्कन्दकृते निशि । निरीयतुः सेचनकाधिरूढी जितकाशिनौ ।। २९९ ॥ अंगारखातिकोपान्तमेत्य सेचनकोऽपि हि । तां विभंगेन विज्ञाय तस्थौ यतममानयन् ॥ ३०० ।। तनो हल्लविहल्लाभ्यामिति निर्भसितः करी । पशुरस्यकृतज्ञोऽसि कातरो यदभू रणात् ॥ ३०१ ॥ विदेशगमनं बन्धुत्यागश्च त्वत्कृते कृतः। अस्मिन्दुर्व्यसने क्षिप्तस्त्वकृते द्यायचेटकः ॥ ३०२ ॥ वरं श्वा पोषितः श्रेयान् भक्तः स्वामिनि यः सदा । न तु त्वं प्राणवाल्लभ्याद्योऽस्मत्कार्यमुपक्षसे ॥३०॥ इति नि ितो हस्ती कुमारी निजपृष्ठतः । वेगादुत्तारयामास भक्तमन्यो घलादपि ॥ ३०४॥ स्वयं तु तस्मिन्नंगारगर्ते झम्पां ददौ करी । सो विपद्य चाद्यायामुत्पेदे नरकावनी ॥ ३० ॥ १ जितम ॥३७॥

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439