Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 408
________________ ROMA सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि संमतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥ ११ । सृष्टिवादकहवाकमुन्मुच्येत्यप्रमाकम् । त्वच्छासने रमन्ते ते येषां नाथ प्रसीदसि ॥१२॥ इति स्तुत्वा सुनासीरे स्थितेऽपापापुरीपतिः । हस्तिपालनपोऽप्येवं वीरस्वामिनमस्तवीत् ॥ १३ ॥ न परं नाम मृदेव कठोरमपि किंचन । विशेषज्ञाय विज्ञप्यं स्वामिने स्वान्तशद्धय॥१४॥ न पक्षिपशुसिंहादिवाहनाऽऽसीनविग्रहः । न नेत्रवानगात्रादिविकारविकृताकृतिः ॥ १५ ।। न शूलचापधादिशस्त्रांककरपल्लवः । नांगनाकमनीयांगपरिष्वंगपरायणः ॥ १६ ।। न गर्हणीयचरितप्रकंपितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः ॥ १७ ॥ न जगज्जननस्थेमविनाशविहितादरः। न लास्यहास्यगीतादिविप्लवोपप्लुत स्थितिः॥१८॥ नदेव सर्वदेवेभ्यः सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्टाप्यः कथं नाम परीक्षकै ? ॥ १९॥ अनुश्रोतःसरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतःप्रयवस्तु कया युक्त्या प्रतीयताम् ॥ २० ॥ अथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणः । ममापि कृतमेतेन वैयात्येन जगन्प्रभो ! ॥ २१ ॥ यदेव सर्वसंसारिजन्तुरूपविलक्षणम् | परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥ २२॥ क्रोधलोभभयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरो मृदुधियां वीतराग ! कथंचन ॥ २३ ॥ एवं स्तुत्वा हस्तिपाल विरतेऽर्हन्नपश्चिमः । अपश्चिमामित्यकरोद्भगवान धर्मदेशनाम् ॥ २४ ॥ NORAKASH

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439