Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
महत्वारः कामार्थी तत्र जन्मिनाम् । अर्थभूतौ नामधेयादनर्थी परमार्थतः ॥ २५ ॥ अर्थस्तु मोक्ष एक धर्मस्तस्य च कारणम् । संयमादिर्दशविधः संसाराम्भोधितारणः ॥ २६ ॥ अनन्तदुःखः संसारो मोक्षोऽनन्तसुखः पुनः । तयोस्त्या गरिमा विना न हि ॥ २७ ॥ मार्ग श्रितो यथा दूरं क्रमात् पंगुरपि व्रजेत् । धर्मस्थो धनकर्माऽपि तथा मोक्षमवाप्नुयात् ॥ २८ ॥ एवं च देशनां कृत्वा चिरते त्रिजगद्गुरौ । मण्डलेशः पुण्यपालः प्रभुं नत्वा व्यजिज्ञपत् ॥ २९ ॥ स्वामिन् स्वप्ना मायाष्टौ दृष्टास्तत्र गजः कपिः । क्षीरदुः काकसिंहाब्जवीजकुंभा इमे क्रमात् ॥ ३० ॥ तदाख्याहि फलं तेषां भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगन्नाथो व्याचकारेति तत्फलम् ॥ ३१ ॥ विवेकता भूत्वाऽपि हस्तितुल्या अतः परम् । वत्स्यन्ति श्रावका लुब्धाः क्षणिकर्द्धिसुखे गृहे ॥ ३२ ॥ न दौस्थ्थे परचक्रे वा प्रवजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां त्यक्ष्यन्ति च कुसंगतः ॥ ३३ ॥ विरलाः पालयिष्यन्ति कुसंगेऽपि व्रतं खलु । इदं गजस्वनफलं कपिस्वमफलं त्वदः || ३४ ॥ प्रायः कपिसमा लोल परिणामाऽल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः प्रमादं गामिनो व्रते || ३५ ॥ ते विपर्यासयिष्यन्ति धर्मस्थानितरानपि । भाविनो विरला एव धर्मोद्योगपराः पुनः ॥ ३६ ॥ शिक्षां प्रदास्यन्त्यप्रमादिनः । ते तैरुपहसिष्यन्ते ग्राम्यैर्ग्रामस्थपौरवत् ॥ इत्थं प्रवचनाऽवज्ञातः परं हि भविष्यति । प्लवंगमस्वप्नफलमिदं जानीहि पार्थिव ! ॥
धर्म
३७ ॥
३८ ॥
॥ ३८५
Loading... Page Navigation 1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439