SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ महत्वारः कामार्थी तत्र जन्मिनाम् । अर्थभूतौ नामधेयादनर्थी परमार्थतः ॥ २५ ॥ अर्थस्तु मोक्ष एक धर्मस्तस्य च कारणम् । संयमादिर्दशविधः संसाराम्भोधितारणः ॥ २६ ॥ अनन्तदुःखः संसारो मोक्षोऽनन्तसुखः पुनः । तयोस्त्या गरिमा विना न हि ॥ २७ ॥ मार्ग श्रितो यथा दूरं क्रमात् पंगुरपि व्रजेत् । धर्मस्थो धनकर्माऽपि तथा मोक्षमवाप्नुयात् ॥ २८ ॥ एवं च देशनां कृत्वा चिरते त्रिजगद्गुरौ । मण्डलेशः पुण्यपालः प्रभुं नत्वा व्यजिज्ञपत् ॥ २९ ॥ स्वामिन् स्वप्ना मायाष्टौ दृष्टास्तत्र गजः कपिः । क्षीरदुः काकसिंहाब्जवीजकुंभा इमे क्रमात् ॥ ३० ॥ तदाख्याहि फलं तेषां भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगन्नाथो व्याचकारेति तत्फलम् ॥ ३१ ॥ विवेकता भूत्वाऽपि हस्तितुल्या अतः परम् । वत्स्यन्ति श्रावका लुब्धाः क्षणिकर्द्धिसुखे गृहे ॥ ३२ ॥ न दौस्थ्थे परचक्रे वा प्रवजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां त्यक्ष्यन्ति च कुसंगतः ॥ ३३ ॥ विरलाः पालयिष्यन्ति कुसंगेऽपि व्रतं खलु । इदं गजस्वनफलं कपिस्वमफलं त्वदः || ३४ ॥ प्रायः कपिसमा लोल परिणामाऽल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः प्रमादं गामिनो व्रते || ३५ ॥ ते विपर्यासयिष्यन्ति धर्मस्थानितरानपि । भाविनो विरला एव धर्मोद्योगपराः पुनः ॥ ३६ ॥ शिक्षां प्रदास्यन्त्यप्रमादिनः । ते तैरुपहसिष्यन्ते ग्राम्यैर्ग्रामस्थपौरवत् ॥ इत्थं प्रवचनाऽवज्ञातः परं हि भविष्यति । प्लवंगमस्वप्नफलमिदं जानीहि पार्थिव ! ॥ धर्म ३७ ॥ ३८ ॥ ॥ ३८५
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy