SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्ग: * क्षीरद्रुतुल्याः सुक्षेत्रे दातारः शासनार्चकाः। श्रावकारते तु रोत्स्यन्ते लिंगिभिवंचनापरैः ॥ ३९ ।। तेषां च प्रतिभास्यन्ति सिंहसत्त्वभृतोऽपि हि । महर्षयः सारमेया इवासारमतिस्पृशाम् ॥ ४० ॥ आदास्यन्ते सुविहिनविहारक्षत्रपद्धतिम् ! लिंगिनो यन्लसमा लीग्द्रुफलमीदृशम् ॥ ४ ॥ धृष्टस्वभावा मुनयः प्राया धर्मार्थिनोऽपि हि । रस्यन्ते न हि गच्छषु दीर्घिकांभास्विव द्विकाः ॥ ४२ ॥ ततोऽन्यगच्छिक सूरिप्रमुखैर्वचनापरः। मृगतृष्णानि भैः सार्धं चलिष्यन्ति जडाशयाः॥ ४ ॥ न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधिष्यन्ते नितान्तं से काकस्वमफलं यदः ॥ ४४ ॥ सिंहतुल्यं जिनमतं जातिस्मृत्यावाज्झितम् । विपत्स्यतेऽस्मिन् भरतवने धर्मज्ञवर्जिते ॥ ४ ॥ न कुतीर्थिकतिर्यंचोऽभिभविष्यन्ति जातु तत् । स्वोत्पन्नाः कृमिवत्किं तु लिंगिनोऽशुद्धबुद्धयः ॥ ४६॥ लिंगिनोऽपि प्राक्प्रभावात् श्वापदाभैः कुतीर्थिकः । न जात्वभिभविष्यन्ते सिंहस्वमफलं ह्यदः ॥ ४ ॥ अजाकरेष्वंबुजानि सुगन्धीनीव देहिनः । धार्मिका न भविष्यन्ति संजाताः सुकुलेष्वपि ॥४८॥ अपि धर्मपरा भृत्वा भविष्यन्ति कसंगतः। ग्रामावकरकोत्पन्नगर्दमाजवदन्यथा ॥ ४९॥ कुदेशे कुकुले जाता धर्मस्था अपि भाविनः । हीना इत्यनुपादेयाः पद्मस्वप्नफलं ह्यदः ॥ ५० ।। यथा फलायाधीजानि बीजबुद्ध्योखरे वपेत् । सथा वपस्यन्त्यकल्पानि कुपात्रे कल्पथुद्धितः ॥ ५१ ॥ यद्वा घुणाक्षरन्यायाग्रथा कोऽपि कृषीवलः । अघीजान्तर्गतं धीजं वपेत् क्षेत्रे निराशयः ।। ५२॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy