Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 412
________________ त्रयोदशाः सर्गः A-MA... Mhan अस्मद्विलक्षणाचाराविमकावपसार्य तत् । अपरी स्थापयिष्यामः स्वोचितौ राजमंत्रिणौ ॥ ६७॥ मंत्री ज्ञात्वति तन्मत्रं नृपायाख्यन्नपोऽवदत् । आत्मरक्षा कथं कार्या तेभ्यो वृन्द हि राजवत् ॥ ६८ ॥ मन्यूचे अहिलीभूय स्थातव्यं अहिलैः सह । त्राणोपायो न कोऽप्यन्य इदं हि समयोचितम् ॥ १९ ॥ कृत्रिमं ग्रहिलीभूय ततस्तौ राजमंत्रिणौ । तेषां मध्ये वकृताते रक्षन्तो निजसंपदम् ॥ ७० ॥ नतः सुसमये जाते शुभपृष्टौ नवोदके । पीते सर्वेऽभवन स्वस्था मूलप्रकृतिधारिणः ॥ ७१ ॥ एवं च दुःषमाकाले गीतार्श लिंगिभिः सह । सदृशीभूय वत्स्यंति भाविस्वसमयेच्छवः ॥ ७२ ॥ इति श्रुत्वा स्वप्नफलं पुण्यपालो महामनाः । प्रवुद्धः प्रावजत्तत्र क्रमान्मोक्षमियाय च ।। ७३ । भगवन्तं प्रणम्याथ गणभृगौतमोऽभ्यधात् । तृतीचारकपर्यन्ते भगवानृषभोऽभवत् ।।७४ ॥ प्रयोविशतिरहन्तस्तुरीयारेऽजितादयः । अभवन्नवसर्पिण्यां यावयूयं जगद्गुरो ! ॥ ७ ॥ अतः परं पंचमारे दुःषमानामनि प्रभो ! । यद्भविष्यति सच्छंस प्रसीद परमेश्वर ! ॥ ७६ ॥ स्वाम्याख्यान्मम निर्वाणादतीतैर्वत्सरैत्रिभिः। सार्धाष्टमाससहितः पंचमारः प्रवक्ष्यति ॥ ७७ ॥ मनिर्वाणाद्तेष्वब्दशतेष्वकोनविंशती । चतुर्दशाच्यां च म्लेच्छकुले चैत्राष्टमीदिने ॥ ७८ ॥ विष्टौ भावी नृपः कल्की स रुद्रोऽथ चतुर्मुखः । नामत्रयण विख्यातः पाटलीपुत्रपत्तने ॥ ७९ ॥ १ सुस्था C. L२ मोऽरः .. || M I ॥३८८

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439