________________
MMMMin
मारयित्वा मारयित्वा निशि हल्लविहल्लयोः । क्षेमेण गच्छतोमंत्रिमंडली स्माऽऽह कूणिकः ॥ २९३ ।। आभ्यां विद्रुतमस्माकं प्रायेण सकलं बलम् । तद् ब्रूत क इहोपायो जये हल्लविहल्लयोः ।। २९४ ॥ मंत्रिणोऽप्यूचिरे तो हि जेतुं शक्यौ न केनचित् । अधिरूढौ हि यावत्तं हस्तिनं नरहस्तिनौ ॥ २९५ ॥ तस्मात्तस्यैव करिणो बधाय प्रयतामहे । खादिरांगारसंपूर्णा कार्यतां पथि खातिका ॥२९॥ छादयित्वा च चारीव दुर्लक्ष्या सा करिष्यते । तस्यां सेचनको वेगादभिधावन् पतिष्यति ॥ २९७ ॥ चंपेशोऽकारयदथ खादिरांगारपूरिताम् । खातिकामुपरिच्छन्नां सदागमनवमनि ॥२९८ ॥ अथ हल्लविहल्लावण्यवस्कन्दकृते निशि । निरीयतुः सेचनकाधिरूढी जितकाशिनौ ।। २९९ ॥ अंगारखातिकोपान्तमेत्य सेचनकोऽपि हि । तां विभंगेन विज्ञाय तस्थौ यतममानयन् ॥ ३०० ।। तनो हल्लविहल्लाभ्यामिति निर्भसितः करी । पशुरस्यकृतज्ञोऽसि कातरो यदभू रणात् ॥ ३०१ ॥ विदेशगमनं बन्धुत्यागश्च त्वत्कृते कृतः। अस्मिन्दुर्व्यसने क्षिप्तस्त्वकृते द्यायचेटकः ॥ ३०२ ॥ वरं श्वा पोषितः श्रेयान् भक्तः स्वामिनि यः सदा । न तु त्वं प्राणवाल्लभ्याद्योऽस्मत्कार्यमुपक्षसे ॥३०॥ इति नि ितो हस्ती कुमारी निजपृष्ठतः । वेगादुत्तारयामास भक्तमन्यो घलादपि ॥ ३०४॥ स्वयं तु तस्मिन्नंगारगर्ते झम्पां ददौ करी । सो विपद्य चाद्यायामुत्पेदे नरकावनी ॥ ३० ॥ १ जितम
॥३७॥