________________
+
+
५
द्वादशः
सर्ग:
A
कुमारौ दध्यतुर्भिग्धिगावाभ्यां किमनुष्ठितम् । पशुत्षमावयोर्व्यक्तं न तु सेचनकः पशुः ।। ३०६॥ । आर्यपादा यस्य कृते क्षिप्ता दुर्व्यसने चिरम् । तं स्वयं निधनं नीत्वा जीवावोऽद्यापि दुर्भियौ ॥ ३०७ ॥ आर्यसैन्यस्य महनो नाशप्रतिभुवाधिध। अकृष्वाहे वृथा नाशं नीतो थन्धुरपन्धुताम् ।। ३०८ ॥ तन्नाऽद्य जीवितुं युक्तं जीवावश्चदतः परम् । शिष्यीभूवाहतो वीरस्वामिनः खलु नान्यथा ॥३०॥ नदा शासनदेव्या तौ भावभ्रमणतां गतौ । नीतौ श्रीवीरपादान्ते परिवव्रजतुतम् ॥ ३१॥ तदा च प्रव्रजिनयोरपि हल्लविहल्लयोः। अशोकचन्द्रो वैशालीमादातुमशकन्न हि ॥ ३११ ॥ एवं सति च चंपेशः प्रतिज्ञामकृतेदृशीम् । प्रतिज्ञया पौरुषं हि दोष्मतां भृशमेधते ॥ ३१८ ॥ न खनामि पुरीमेतां खरयुक्तहलेन चेत् । तदाऽहं भृगुपातेनाग्निमयशेन वा म्रिये ॥ ३१३ ॥ कृतसन्धोऽपि वैशाली पुरी भंक्तुमनीश्वरः । खेदमासादयामास कूणिकः क्रमयोगतः ॥ ३१४॥ नदा चाशोकचन्द्रस्य खिन्नस्य गगनस्थिता । देश्याख्यदीदृशं रुष्टा श्रमण कूलवालके ॥ ३१५ ॥ "गनियं चे मागधियं शमने कुलवालके । लभिन्न कूणि एलाए तो वेशालिं गहिस्सिदि ॥ ३१६॥ आकाशदेवतावाचमिमामाकर्ण्य कूणिकः । यभाण सद्यः सातजयप्रत्याशयोच्छ्चसन् ॥ ३१७॥ बालकानां हि भाषा या भाषा या योषितामपि । औत्पातिकी च भाषा या सावै भवति नाऽन्यथा ॥३१॥ तत्क्वास्ति श्रमणः कूलवालकः प्राप्स्यते कथम् । ? पण्यांगना मागधिकाभिधाना विद्यते क वा १॥३१॥
Xin३७२