________________
AAAAAAAAAALARAMMAMA
तछ्रुत्वा मैत्रिणः प्रोचुस्तवैव पुरि विद्यते । वेश्या मागधिका देव ! न विद्मः कूलवालकम् ॥ ३२० ॥ तदैव मुक्त्वा सैन्या, वैशालीरोधहेतवे । सैन्यार्धन ययौ चंपां चंपापतिरिलापतिः॥ ३२१ ॥ पण्यांगनां मागधिकां मगधाधिपनन्दनः । आह्रास्त गतमात्रोऽपि त्वरितं वरमंत्रिवत् ।। ३२२ ॥ आदिदेश च भद्रे ! त्वं धीमती त्वं कलावती । त्वया चानकपुंसां धीराजन्माप्युपजीविता ॥ ३२३ ॥ सफलीकुरु मत्कार्ये सद्वैशिककलां निजाम् । रमयित्वा पतित्वेन श्रमणं कूलवालकम् ॥ ३२४ ।। करोम्येवमिति च सा प्रपेदाना मनस्विनी । चंपानाथेन सचक्रे वस्त्रालंकरणादिना ।। ३२५ ॥ विसृष्टा च गृहं गत्वा विमृश्य च धियां निधिः । तदैव मूर्त्ता मायेव सा मायााविकाऽभवत् ॥ ३२६॥ सा गर्भश्रानिकामना गृहिर्ग पथाविधि । अगि द्वादशधा लोके दर्शयामास सत्यवत् ॥ ३२७ ॥ चैत्यपूजादिनिरतां धर्मश्रवणतत्पराम् । ऋज्वाशयाश्च विविदुराचार्याः श्राविकेति ताम् ॥ ३२८ ॥ सान्यदाऽपृच्छदाचार्यान् कः साधुः कूलवालकः । तद्भावमविदन्नश्च कथयन्ति स्म तेऽप्यदः ॥ ३२९ ॥ धर्मज्ञे ! पंचधाऽऽचारनिरतो मुनिपुंगवः । एकोऽस्ति तस्य च क्षुल्ल एकः कपिरिवास्थिरः॥ ३३० ।। सामाचारीपरिभ्रष्टो वारणास्मारणादिभिः । नोद्यमानो याति रोषं स तु क्षुल्लोऽतिदुर्नयः॥ ३३१ ॥ गुरुस्तु तस्य क्षुल्लस्य दुःश्रवामपि सादरः । आचारशिक्षा प्रददौ यदुक्तमिदमागमे ॥ ३३२ ॥ “परो रुप्यतु वा मा वा विषवत्प्रतिभातु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी" ॥ ३३३ ॥
GRACKCHA
॥३७३