________________
न कर्कशां न मधुरां गुरोः शिक्षाममस्त सः । लघुकर्मणि शिष्ये हि प्रभवन्ति गुरोर्गिरः ॥ ३३४ ॥ विहरन्तोऽन्दाचार्याने 'गिरेर्नगरं ययुः । उज्जयन्तं चारुरुहुः सह क्षुल्लेन तेन तु ।। ३३५ ।। क्षुल्लेन देवं वन्दित्वा गुरोरुत्तरतो गिरेः । मुमुचे गंडपाषाणः पेषणाय दुरात्मना ।। ३३६ ।। श्रुत्वा खडखडाशब्दं गुरुराकुञ्चिक्षणः । आलोके तमझमानं पतन्तं पत्रिगोलवत् ॥ ३३७ ॥ चक्रे च विघस ग्रायाऽपि तदन्तरे । निरियायापदः प्रायः प्रभवन्ति न धीमति ।। ३३८ ॥ शशाप च गुरुः क्षुल्लं कुपितस्तेन कर्मणा । स्त्रीसकाशादरे पाप ! व्रतभंगमवाप्स्यसि ।। ३३९ || क्षुल्लोऽब्रवीद्गुरो ! शापं करिष्यामि तवान्यथा । तत्र वत्स्याम्यरण्येऽहं यत्र द्रक्ष्यामि न स्त्रियम् ॥ ३४० ॥ इति स गुरुं त्यक्त्वा मर्यादाभित्र दुर्मतिः । निर्मानुषामरण्यानीं स शार्दूल हवाविशत् ॥ ३४१ ॥ गिरिकूलकषामृले स्थितः प्रतिमया सदा । स मासादर्थमासाद्वा पथिकादेरपारयत् ॥ ३४२ ॥ एवं कूलंकषाले मुनेस्तस्य तपस्यतः । प्रावृट् प्रादुर्बभूवान्दवितानितनभस्तला ॥ ३४३ ॥ रसोद्रेकेण लुपन्त्य उभे कूले कुले इव । नय उन्मार्गगामिन्यो बभूवुः कुलटा इत्र || ३४४ ॥ क्षुल्लाधिष्ठितकूलायामुत्पूरायां सरित्यथ । दध्यौ तद्देवता भक्ता शासने श्रीमताम् ॥ ३४५ ॥ कूलस्थितो मुनिरयं कूलद्रुम इवाधुना । नेध्यते वारिपूरेण यद्युपेक्षां करोम्यहम् ॥ ३४६ ॥
१ गिग्नि है.
द्वादशः
सर्गः
।। ३७४