________________
A
KHATAMATK
परिव्रजन्त्या त्वमयं नन्दया कुंडलद्वयम् । क्षौमद्वयं च तदिव्यं दत्तं हल्लविहल्लयोः ॥ १०५ ।। भन्यानां प्रतिबोधाय नतश्च भगवानपि । सुरासुरैः सेव्यमानो चिजहार वसुन्धराम् ॥ १०६॥ विविधाभिग्रहपूर्व पालयित्वा चिरं व्रतम् । मृत्वा सर्वार्थसिद्धेऽभूदभयः प्रवरः मुरः॥ १०७॥ तदा श्रीवीरपादाब्जमृले प्रबजितेऽभये । इति संचिन्तयामास शुद्धधीर्मगधाधिपः ॥ १०८ ॥ अभयो हि कुमारेषु समस्तगुणभरभत । ब्रतमादाय सक्ती स तु स्वार्थमसाधयत् ॥१०९॥ कुमारे कुत्रचिदोषमन्यायुष्मति वपुष्मति । राज्यमारोपयिष्यामि क्रमो येष महीभुजाम् ॥ ११ ॥ सगुणो निगुणो वापि पुत्रोऽह: पितृसंपदाम् । सगुणः स्याद्यदि तदा पुण्यं हि पितुरुज्ज्वलम् ॥ १११ ॥ विनाऽभयकुमारेण मनोविश्रामधाम मे । कृणिको गुणवानेष राज्यमर्हति नापरः ॥ ११२॥ निश्चित्य कूणिक राज्ये सोऽवाद्धल्लविहल्लयोः । हारमष्टादशचक्रं गज सेचनकं च तम् ॥ ११३ ॥ अत्रान्तर कुमारोऽपि मंत्रयामास कूणिकः । कालादिभिः स्वसहशैर्दशभिर्धातृभिः सह ॥ ११४॥ जरनपि पिनाऽस्माकं राज्यस्य न हि तृप्यति । पुत्रे हि कवचहरे राज्ञोऽधिकुरुने व्रतम् ॥ ११५ ॥ घरं वरीयानभयः श्रियमौज्झदुवाऽपि यः। न तु तातो विषयान्धः स्वां जरां यो न पश्यति ॥ ११६ ।। नदद्य पितरं बद्ध्वा राज्यं स्वसमयोचितम् । गृह्णीमो नापवादोऽत्र विवेकविकलो हि सः ॥ ११७ ॥
4 %A0A4
AAAAAAACHAR