________________
म
वादशः सर्गः
X-
-
4-
RC-
कृत्वैकादशधा राज्यं भ्रातरो मुंज्महे वयम् । पिता तु बद्धस्तदनु जीवत्वब्दशतान्यपि ॥ ११८ ॥ इति ने दुर्धियः सर्वे विश्वस्तं पितरं निजम् । बबन्धुदुरपत्यं हि गृहजातो विषद्रुमः ॥ ११९ ।। शुक्रवत्पञ्जरेऽक्षप्सीत् कूणिकः श्रेणिकं ततः । विशेषोऽयं पुनर्भक्तपाने अपि ददौ न हि ॥ १० ॥ पूर्वाह्ने चापराह्ने च कृणिकः पूर्ववैरतः । पितुः कशाघातशतं पापोऽदादनुवासरम् ॥ १२१ ॥ अधिसेहे श्रेणिकस्तां दुर्दशा देवढौकिनाम् । दन्तावलः समर्थोऽपि वारीचद्धः करोतु किम् ॥ १२२ ।। निकषा श्रेणिकं गन्तुं कूणिकोऽदान कस्यचित् । केवलं मातृदाक्षिण्याचेलणां न यवारयत् ॥ १२३ ॥ चेलणाऽपि प्रतिदिनं सुरया शतधौतया। सगास्नातेवाऽऽकशीभूयोपश्रेणिकं ययौ ॥ १२४ ।। कुल्माषपिण्डिकां चैकां केशान्तः पुष्पदामवत् । प्रक्षिप्य चेलणाऽनैषीत् पतिभक्ता तदन्तिक ।। १२५ ॥ पत्ये कुल्माषपिण्डी तां प्रच्छन्नां चलणा ददौ । प्राप्य तामपि दुःमाणं स मेने दिव्य भोज्ययत् ॥ १२६॥ चकार श्रेणिकः प्राणयात्रां पिंडिकया तया । बुभुक्षालक्षणो रोगो विनाऽन्नं खलु मृत्यये ।। १२७ ॥ शतधौतसुराधिन्दून केशपाशाच्च चेलणा । अपातयत् पतिभक्ता सह नेत्राश्रुविन्दुभिः ॥ १२८ ॥ श्रेणिकोऽपि सुराविन्दन पततः पिबति स्म तान् । चातको मेघमुक्ताम्वुपिन्दनिव पिपासितः ।। १२९ ॥ बिन्दुमात्रपीतयाऽपि श्रेणिकः सुरया तया । म विवेद कशाघातांस्कृषया नाप्यपीडयत ॥ १३ ॥ इत्थं च श्रेणिकं बद्ध्वा कुर्वतो राज्यमुत्कटम् । कूणिकस्य पद्मावत्यां पत्न्यां सूनुरजायत ।। १३१ ॥
R
PRAKown