SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ १३७ ॥ वर्धापिकास्तदाऽऽयाताः कूणिको दासचेटिकाः । वस्त्राभरणसंछन्नाश्व कल्पलतोपमाः ॥ १३२ ॥ स्वयं चान्तःपुरे गत्वा पाणिभ्यां पुत्रमाददे । अभात्तत्पाणिपद्मस्थः स पोतो हंसपोतवत् ॥ १३३ ॥ कूणितं सुतं पयन्नयनाम्भोजभास्करम् । उन्मुद्रपरमानन्दः श्लोकमेवं तदाऽपठत् ॥ १३४ ॥ अंगाई गात्संभवसि हृदयादभिजायसे । आत्मैव पुत्रनामाऽसि तज्जीव शरदां शतम् ॥ १३५ ॥ भूयो भूयः पठन्नेवं विशश्राम न कूणिकः । तच्छ्लोकच्छ्रद्मना हर्ष हृद्यमान्तं वमन्निव ॥ १३६ ॥ कुमारभृत्यां दक्षाभिवृद्धस्त्रीभिरथार्भकः । अमोच्यरिष्टशय्यायामादाय नृपतेः करात् ॥ चक्रे च नृपतिः सुमोनकर्ममहोत्सवम् । याचकेभ्यो द्विजादिभ्यो ददद्दानं यथारुचि ॥ १३८ ॥ उदायीति ददौ नाम तस्य सुनोश्च कृणिकः । उत्सवेनातिमहता सुदिनीकुर्वता दिनम् ॥ १३९ ॥ अथोदायिकुमारोऽपि स्वर्णच्छायो दिने दिने । वृद्धिं जगामोपवने शाखी वाऽऽरक्षकैर्वृतः ॥ १४० ॥ तेन व्यधिरून कुमारेण निरन्तरम् । दधौ सशालभञ्जिीकस्तम्भशोभां महीपतिः ॥ १४१ ॥ उल्लापयन् कुमारं तं लल्लमन्मनया गिरा । राजाऽपि वक्तुमज्ञस्य शिशोः श्रियमशिश्रियत् ॥ १४२ ॥ आसने शयने याने भोजनेऽपि तमर्भकम् । न मुमोच कराद्राजा मंगल्यामिव मुद्रिकाम् ॥ १४३ ॥ आसाञ्चक्रेऽन्यदा भोक्तुं राजा श्रेणिकनन्दनः । वामोरुमस्तके न्यस्योदायिनं पुत्रवत्सलः ॥ I १४४ ॥ १] जातोऽसि M. ॥ 116 ॥ ३५९ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy