Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
कीर्तिस्तं भैरिवोत्तन्धैः खटीघवलितैः खरैः । संशप्तकाश्च संचेरुर्द्वयोरपि हि सैन्ययोः ॥ २२५ ॥ कूणिकस्य बले कालः कुमारो वलनायकः । आदावपि प्रववृते योद्धुं चेटक नया ॥ २२६ ॥
युयुधे सादिना सादी निषादी च निषादिना । रथी च रथिना पत्तिः पतिना च बलद्वये ।। २२७ ॥ स्तंर मैस्तुरंगैश्च कुन्तघातनिपातितैः । अजायत तदा शैलगंडशैलवतीव भूः ॥ २२८ ॥ धैर्भव: समरे रुविराऽऽपगाः । सान्तरीपा इव साऽऽम्भोमानुषा इव चाऽऽवभुः ॥ २२९ ॥ स्फुरद्भिरसिभिर्वीरकुञ्जराणां रणाजिरे । असिपत्रवनमिष प्रादुर्भूतमदृश्यत ॥ २३० ॥ असिच्छिनैरुच्छद्भिर्वीराणां पाणिपंकजैः । कौणपाः पूरयामासुरघतंसकुतूहलम् || २३१ ॥ स्वान् रुंडानपि युद्धायाssदिशन्त इव हुंकृतैः । पेतुर्भवानां मूर्धानः खङ्गधाराभिराहताः ॥ २३२ ॥ इत्थं च सागरव्यूहं कालः पोल इवांबुधिम् । अवगाह्य ययौ पारमिव चेटकसन्निधिम् || २३३ || कालं कालमिवाऽकालेऽप्यायान्तं प्रेक्ष्य चेटकः । चिन्तयामास केनापि नैव वज्रमिवाऽस्खलि || २३४ ॥ अभ्यापतन्तं तदिमं रणसागर मन्दरम् । क्षणादपि निगृह्णामि देवनेन पतत्रिणा ।। २३५ ॥ इति दिव्येषुणा वैरिमाणसर्वस्वदस्युना । प्रहृत्य चेटकः कालं प्रापयामास पंचनाम् ॥ २३६ ॥ तदा चास्तमुपेयाय भास्वान कालकुमारवत् । शुभेव चंपेशबलं तमसा जग्रसे जगत् ॥ २३७ ॥
"रोध | "रिवोः I. ॥
द्वादशः सर्ग:
|| ३६६
Loading... Page Navigation 1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439