Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 363
________________ आरक्षैः स व्रजन बेगात् पुरवर्त्मन्यसंचरे । धृत्वा चोरधियाऽवन्धि चोरचर्या हि तादृशी ॥ ५०० ॥ स प्रसेनजितो राज्ञः पुरः प्रातरनीयत । पृष्टश्च कथयामास स्वर्णमापक तथा ॥ २०२ ॥ राजाऽपि तत्तथा श्रुत्वा कृपावारितरंगितः । तं स्माह हं हो ? याचस्व यच्छाम्येव यदिच्छसि ॥ २०२ ॥ fats मार्गष्यामीत्युक्त्वाऽशोकवनान्तरे । गत्वा योगी बैकमना भूत्वा चाचिन्तयद् द्विजः ॥ ५०३ ॥ माया स्यान वस्त्रादि तत्सुवर्णशतं नृपात् । याचे याचितलाभे हि याचना किं तनीयसी ॥ ५०४ ॥ म स्यात्स्वर्णशतेनापि प्रक्रिया वाहनादिका । याचे स्वर्णसहस्रं तदिष्टार्थप्राप्तिवेतनम् ||५०५ ॥ सहस्रेणापि मेऽपत्यविवाहाद्युत्सवः कुतः । इति लक्षमहं याचे याच नाचतुरोऽस्मि हि ॥ ५०६ ।। लक्षेणापि सुहृद्वन्धुदीनाद्युद्धरणं कुतः । कोटि कोटिशतं कोटिसहस्रं वा तदर्थये ॥ २०७ ॥ एवं चिन्तयतस्तस्य शुभकर्मोदयादभूत्। इति धीः सुपरीणामा धीर्हि कर्मानुसारिणी ॥ २०८ ॥ अपि माषद्वयप्राप्तौ यः संतोषोऽभवन्मम । सोऽय कोटेरपि प्राप्तौ मां तङ्गीत इवामुचत् ॥ ५०९ ॥ विद्यार्श्वमागतस्येह मम दुर्व्यसनं यदः । सागरं गन्तुकामस्य हिमवमनोपमम् ॥ ५१० ॥ treat af गुरोःस्थले कमलरोपणम् । यद्दास्यामपि दासत्वमकार्षमकुलोचितम् ॥ १११ ॥ तदलं विषयैरेभिरिति संवेगमाप्तवान् । उत्पन्नजातिस्मरणः स्वयबुद्धो वभूव सः ॥ ५१२ ॥ १ 'बसरोऽस्ति हि ॥ ---- ॥ ३३९

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439