SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ AMAVYALAYA कपिलर्षिरवोऽवादीद्वादको नास्ति कश्चन । वायं विना कुतो नृत्तं न कार्य कारणं विना ॥ ५२६ ।। तालवाद्यमथाकार्पोराः पञ्च मानमपि ! कपिलोऽपि ननोचैर्जगी च श्रुतिशर्मदम् ॥५२७॥ दुःखानुभवभूयिष्ठे किं भवेऽस्मिन्नशाश्वते । भवेत्तत्कर्म येनाहं गच्छेयं न हि दुर्गतिम् ॥ ५२८ ॥ इत्यादिका धुवाः पश्च शतानि कपिलो जगी । सर्वाः प्राकृतबन्धेन अव्यरागेण पन्धुराः॥५२९॥ ध्रुवासु गीयमानासु कपिलेन महर्षिणा । ते चौराः प्रत्यबुध्यन्त कस्यांचित्कश्चिदेव च ॥ ३० ॥ ततः शतानि पश्चापि चौराणां स महामुनिः । पर्यत्राजयदेतद्धि दृष्टं तज्ज्ञानचक्षुषा ॥ ५३१ ॥ पुरे राजगृहे देवाधिदेषाज्ञां प्रगृह्य सः । ब्रह्मर्षिः कपिलोऽत्रैव स्वत्पुरीमस्ति पावयन् ॥ ५३२ ॥ केवल्येष स्वयंबुद्धः श्वेताम्बरशिरोमणिः । कर्ता प्रतिष्ठा कोऽप्येष पुण्यानामुदयस्तव ॥ ५३३ ॥ ततम्बाषन्तिनाथेन प्रार्थितः कपिलो मुनिः। प्रत्यष्ठात् प्रतिमां मंत्रपूतचूर्णानि निक्षिपन् ॥ ५३४ ॥ चर्चयित्वार्चयित्वा च दोामुद्धृत्य पार्थिवः। तां तद्धनो धनमिव हृद्वारे प्रतिमां दधौ ॥ ५३५॥ न्यधादनिलखेगस्य स्कन्धे तां प्रतिमा नृपः । तदन्तरासनिकवदारूढोऽधारयत् स्वयम् ॥ ५३६ ॥ दिव्याभियोगयानेभ्योऽप्यतिवेगेन पन्तिना । गत्वा वीतभये दास्यै प्रतिमां तां समार्पयत् ॥ ५३७ ॥ साऽपि तां प्रतिमा चैत्ये न्यस्यादाय पुरातनीम् । आगाहासी प्रतिमां च नृपोऽप्यारोपपद् द्विपम् ॥ ३८॥ १ नृपं 1. D. || २ देवाभि M. %3
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy