SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ४ . M P राजाऽपि गजमारुध्यावन्नी प्राप मया द्रुतम् । समागतेवाभिमुख यथा सा पुर्यलक्ष्यत ॥ ५३९ ॥ वणिजो विदिशापुर्या भायलस्वामिनोऽन्यदा। गोशीर्षकाष्ठप्रतिमा विद्युन्मालिप्रकाशिता ।। ५४०॥ राज्ञा कुग्जिकया चापि पूजनाय समर्पिता। तयोस्तदपि वहृतद्विषयासक्तयोः सश ॥५४॥(युग्मम् ) अन्यदा भायलोऽद्राक्षीत्तेजोराशी इवांगिनी । हस्तविन्यस्तपूजोपकरणौ पुरुषावुभौ ॥५४२ ॥ मौ दृष्ट्वा दृष्टिसुखदावाजन्मसुहृदाविध । को युवामिति पप्रच्छ भायलोऽशंसतां च तौ ॥ ५४३ ॥ आव नागकुमारी भोः ! पातालभवनालयो । नाम्ना कंघलशावली धरणेन्द्रस्य शासनात् ॥ ५४४ ॥ देवाधिदेवपतिमा विद्युन्मालिकृतामिमाम् । आयावोऽर्चयितुं चैत्यमेवम!पहारिणौ ॥५४॥ (युग्मम्) अस्या हि विदिशानद्या हदमध्येन वर्मना । मज्जनोन्मत्रने नित्यमावां कुर्वोऽत्र हंसवत् ॥ ५४६ ॥ भायलः स्माह पाताले युवा स्वभवनानि मे । गृहीत भगवन्निश्रस्याध दर्शयतं सुरौ ! ॥ २४७ ॥ शाश्वनीः प्रतिमास्तत्र वन्दितु मे मनोरथः । स पूर्यतां प्रसादाद्वां न मुधा देवदर्शनम् ॥ ५४८ ॥ ताभ्यां प्रपद्य च तथा तन्त्र तेनैव धर्मना । औत्सुक्यावर्धरचितपूजोऽनीयत भायलः ॥ ५४॥ ववन्दे शाश्वतीरहत्मतिमास्तत्र भायल चोचे धरणस्तोषात् प्रसादो याच्यतामिति ॥५५॥ भायलः स्माह मन्नाम सर्वत्र ज्ञायते यथा । तथास्तु नामस्थेमैव पुरुषाणां हि पौरुषम् ॥ ५५१॥ १ मतनैव ..॥ - *AKACOCIRBACHECK**** - - ---- - - ॥३४२
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy