________________
I
मूर्धजान्मूर्ध्न उद्धृत्य स्वयं देवतयाऽर्पितम् । रजोहरणवदनवस्त्रिकादिकमाददे ॥ ५९३ ॥ राजानं स गतो राज्ञाऽपृच्छीति किमचिन्तयः १ । स्वनोरथविस्तारायाब्रवीदिति ॥ ५६४ ॥ यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्धते । द्विमाच्या चिन्तितं कार्य कोट्याऽपि न हि निष्ठितम् ५१५ राजाऽपि विस्मितः प्रोचे कोटीरपि ददाम्यहम् । सुंक्ष्व भोगान् व्रतं च न व्रते प्रतिभूस्तव ॥ ५१६ ॥ कपिलोऽप्यब्रवीदर्थे राजन्नलमनर्थदैः । निर्ग्रन्थी भूतवानस्मि धर्मलाभोऽस्तु भद्र ! ते ॥ ५१७ ॥ इत्युक्त्वा कपिलमुनिस्ततो निर्गत्य निर्ममः । निरीहो निरहंकारो विजहार वसुन्धराम् ॥ ५९८ ॥ एवं व्रतं पालयतः कपिलस्य महामुनेः । षण्मासपर्ययेणाभूत् केवलज्ञानमुज्ज्वलम् ॥ ५१९ ॥ इवासीद्राजगृहनगरस्यान्तरालगा । अष्टादशयोजनानुप्रमाणा दारुणाटवी ॥ ५२० ॥ तत्र 'बेडदासाख्या बलभद्रादयोऽभवन्। शतानि पञ्च चौरास्तान् बोवान् कपिलोऽबुधत् ॥ ५२१ ॥ चौराणामुपकाराय तेषां च स महामुनिः । अभ्यागात्तामरण्यानीं शरण्यः सर्वजन्मिनाम् ॥ ५२२ ॥ एक चौरो वृक्षाग्रमधिरूढः पुत्रंगवत् । ददर्श दूरादायानं कपिलं श्रमणोत्तमम् ॥ ५२३ ॥ सौरोऽचिन्तयत् कोऽयमागच्छत्यभिभूय नः । तमाख्यदिति सेनान्ये सेनान्यं सोऽप्युपाययौ ॥ ५२४ ।। दिया क्रीडनमायातमिति सेनापतिर्बुवन् । नृत्य नृत्य श्रमणकेश्यज्ञ आज्ञापयन्मुनिम् ॥ ५२५ ॥
१.
एकादश सर्गः
॥ ३४०