Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 359
________________ कृतकृत्यं च तं देवी वैताट्यस्य तलेऽमुचत् । ददौ चाष्टोत्तरं तस्मै कामदं गुलिकाशतम् ॥ ४४७ ॥ क्षिप्त्वैका गुलिकां वक्त्रे स दध्यो धन्दिषीय यत् । देवाधिदेवप्रतिमां श्रीवीतभयपत्तने ॥ ४४८ ।। इति चिन्तासममपि सोऽय वीतभयं ययौ । देवाधिदेवप्रतिमां तेन कुब्जाऽप्यवन्दयात् ॥ ४४९ ।। शरीरापाटवं चाभूगान्धारस्यापकहनि । न च प्रतिजनामार कुमाधर्मवत्सला ॥ ४० ॥ गान्धारोऽपि स्वमासन्नमवसानं विदन् सुधीः । कुजायै गुलिकाः प्रादात्प्रव्रज्यां स्वयमावदे ॥ ४५१ ।। रूपार्थिनी कुरूपा सा क्षिप्त्वैकां गुलिकां मुखे । उपपादभवेवाभूद् द्राग्दित्र्याकारधारिणी ॥ ४५२ ॥ सुवर्णवर्णसर्वांगा साऽभूद् गुलिकया तया । ततोऽभ्यधत्त सर्वोऽपि सुवर्णगुलिकेति ताम् ॥ ४५३ ।। साऽथ द्वितीयां गुलिका मुखे कृत्वेत्यचिन्तयत् । वृयैष रूपमीहङ् मेऽनुरूपश्चेत् पतिर्न हि ॥ ४५४ ॥ पितेव मेऽयं नृपतिः पत्तयोऽस्यापरे नृपाः । सच्चंडशासनश्चंडप्रद्योतोऽस्तु पतिर्मम ॥ ४६५ ॥ प्रद्योताग्रे च तद्रूपं वर्णयामास देवता । प्रद्योतोऽपि हि कुब्जायाः प्रार्थने दूतमादिशत् ॥ ४५६ ॥ गत्वा सामर्थयांचके दूतस्तं साप्यदोऽवदत् । प्रथोतं दर्शयाथाऽऽख्यात्प्रयोताय तथैव सः॥ ४५७ ॥ तदेवरावतारूढवासवश्रियमाश्रयन् । आरूढोऽनिलवगेभं निशि प्रद्योत आययौ ॥ ४५८ ॥ तस्मै यथा सा रुरुचे तस्यै सोऽपि तदा तथा । प्रद्योतोऽथाववत्कुब्जामब्जाक्ष्योहि मत्पुरीम् ॥ ४५९ ॥ कुब्जाऽब्रवीन जीवामि यां विना क्षणमप्यहम् । देवाधिदेवप्रतिमां तां मुक्त्वा यामि न कचित् ॥४२०

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439