________________
कृतकृत्यं च तं देवी वैताट्यस्य तलेऽमुचत् । ददौ चाष्टोत्तरं तस्मै कामदं गुलिकाशतम् ॥ ४४७ ॥ क्षिप्त्वैका गुलिकां वक्त्रे स दध्यो धन्दिषीय यत् । देवाधिदेवप्रतिमां श्रीवीतभयपत्तने ॥ ४४८ ।। इति चिन्तासममपि सोऽय वीतभयं ययौ । देवाधिदेवप्रतिमां तेन कुब्जाऽप्यवन्दयात् ॥ ४४९ ।। शरीरापाटवं चाभूगान्धारस्यापकहनि । न च प्रतिजनामार कुमाधर्मवत्सला ॥ ४० ॥ गान्धारोऽपि स्वमासन्नमवसानं विदन् सुधीः । कुजायै गुलिकाः प्रादात्प्रव्रज्यां स्वयमावदे ॥ ४५१ ।। रूपार्थिनी कुरूपा सा क्षिप्त्वैकां गुलिकां मुखे । उपपादभवेवाभूद् द्राग्दित्र्याकारधारिणी ॥ ४५२ ॥ सुवर्णवर्णसर्वांगा साऽभूद् गुलिकया तया । ततोऽभ्यधत्त सर्वोऽपि सुवर्णगुलिकेति ताम् ॥ ४५३ ।। साऽथ द्वितीयां गुलिका मुखे कृत्वेत्यचिन्तयत् । वृयैष रूपमीहङ् मेऽनुरूपश्चेत् पतिर्न हि ॥ ४५४ ॥ पितेव मेऽयं नृपतिः पत्तयोऽस्यापरे नृपाः । सच्चंडशासनश्चंडप्रद्योतोऽस्तु पतिर्मम ॥ ४६५ ॥ प्रद्योताग्रे च तद्रूपं वर्णयामास देवता । प्रद्योतोऽपि हि कुब्जायाः प्रार्थने दूतमादिशत् ॥ ४५६ ॥ गत्वा सामर्थयांचके दूतस्तं साप्यदोऽवदत् । प्रथोतं दर्शयाथाऽऽख्यात्प्रयोताय तथैव सः॥ ४५७ ॥ तदेवरावतारूढवासवश्रियमाश्रयन् । आरूढोऽनिलवगेभं निशि प्रद्योत आययौ ॥ ४५८ ॥ तस्मै यथा सा रुरुचे तस्यै सोऽपि तदा तथा । प्रद्योतोऽथाववत्कुब्जामब्जाक्ष्योहि मत्पुरीम् ॥ ४५९ ॥ कुब्जाऽब्रवीन जीवामि यां विना क्षणमप्यहम् । देवाधिदेवप्रतिमां तां मुक्त्वा यामि न कचित् ॥४२०