Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
५।३१ ] पञ्चमोऽध्यायः
[ ५६ वा, द्रव्ये वा, द्रव्याणि वाऽसत् । तदुभयपर्याये वा, तदुभयपर्याययोर्वा, तदुभयपर्यायेषु वा, अादिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा, न वाच्यं सदसदिति वा, देशादेशेन विकल्पयितव्यमिति ।
'स्यात्' निपातशब्दः अनेकान्तवादं सूचयति । यथा "अनेकान्ते च विद्यादौ स्यान्निपातः शुचे क्वचित्'' [धनञ्जयनाममालायाम्] धर्मादिकं द्रव्यं स्यात् सत् स्यादसत्, स्यानित्यं स्यादनित्यं सर्वमेतद् द्रव्यार्थपर्यायार्थ-नयमुख्यतया गौणतया विवक्षा सिद्धम् ।
यस्य नयस्य विवक्षा वर्तते तन्नयञ्च तद् विषयं सत्, सप्तभंगे तृतीयं विकल्पमवक्तव्यप्रवृत्तं भवति । तस्यापेक्षया वस्तुस्वरूपमवक्तव्यम् । "प्रश्नवशादेक स्मिन् वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तभंगी"
[श्रीतत्त्वार्थराजवातिकम्] एवं सप्तभङ्ग त्रयविकल्पाः सदसदवक्तव्याः। त्रयोऽपि विकल्पाः द्रव्यपर्यायोभयापेक्षया घटन्ते। सप्तभङ्गः त्रयाणां स्वरूपं सकलादेशापेक्षया एव भवति । शेषाः चत्वारः विकल्पाः विकलादेशापेक्षया ।
___ यथा सकलादेशः प्रमाणाधीनः एकगुणमुख्येनाशेषवस्तु-कथनं सकलादेशः । विकलादेशो नयाधीनः । सप्तभङ्गः द्वौ प्रकारौ, प्रमाणसप्तभङ्गी द्वितीयप्रकारः नयसप्तभङ्गी। इयमपि त्रिधा प्रवर्तते, ज्ञानरूपेण वचनरूपेण चार्थरूपेण । चत्वारः विकल्पाः अपि पूर्वत्रयविकल्पसंयोगादेव ।
यथा (१) स्यादस्ति नास्ति, (२) स्यादस्त्यविकल्पः, (३) स्यान्नास्त्यवक्तव्यः, (४) स्यादस्तिनास्त्यवक्तव्यः ।। ५-३१ ।।
* सूत्रार्थ-गौण और मुख्य की अपेक्षात्रों से सत् तथा असत् की सिद्धि होती है। अर्थात्-पदार्थों की सिद्धि मुख्यता और गौणता से होती है ।। ५-३१ ।।
विवेचनामृत एक ही वस्तु में नित्यत्व तथा अनित्यत्व इत्यादि परस्पर विरुद्ध धर्मों की सिद्धि अर्पित से यानी अपेक्षा से एवं अनर्पित से यानी अपेक्षा के प्रभाव से होती है ।
प्रत्येक वस्तु-पदार्थ अनेकधर्मात्मक है तथा उसमें परस्पर विरोधाभावी धर्म भी रहे हुए हैं। उन विरोधाभावी धर्मों का एक ही वस्तु में प्रमाणयुक्त समन्वय कराना तथा विद्यमान अनेक धर्मों में