Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 237
________________ श्रीतपोगच्छाधिपति - शासनसम्राट् - सूरिचक्रचक्रवर्ति - सर्वतन्त्रस्वतन्त्र - जगद्गुरुश्रीमद्विजयनेमिसूरीश्वरपट्टालंकार-व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नश्रीमद्विजयलावण्यसूरीश्वरशिष्यरत्नविद्वद्वर्यमुनिश्रीदक्षविजयशिष्यरत्नविद्वद्वर्यबालमुनि श्रीसुशीलविजयविरचितं ॥ श्रीनेमिसूरीश्वराष्टकम् ॥ (शार्दूलविक्रीडितवृत्तानि) । यज्ज्ञानं च निबन्धसिन्धुतरणे, नौकानिभं वर्तते । यद्वाणी शुभमानसाम्बुजरवि - नानार्थसंबोधिनी ।। यत्कीत्तिः किल दिक्षु विस्तृततरा, चंद्रोज्ज्वला सर्वदा । वन्देऽहं शुभपादपद्मयुगलं, तं नेमिसूरीश्वरम् ।। १ ।। यस्य क्षान्तिरनल्पकोपशमने, धाराधराभा वरा । ___ नानाशिष्यप्रशिष्यवृन्दसहितं, सद्बोधिरत्नप्रदम् ।। दुर्दान्तप्रतिवादिवादनिपुणं सम्राटपदालङ्कृतं । वन्देऽहं शुभपादपद्मयुगलं, तं नेमिसूरीश्वरम् ।। २ ।। नानातर्कपरायणं गुणयुतं, लावण्यलीलालयं । न्यायव्याकरणादिशास्त्ररचना-नैपुण्यभाजां वरम् ।। तीर्थोद्धारधुरन्धरं मुनिवरं, चारित्ररत्नाकरं । वन्देऽहं शुभपादपद्मयुगलं, तं नेमिसूरीश्वरम् ।। ३ ।। वैराग्यद्रुमवर्धने जलधरं, श्वेताम्बराग्रेसरं । भव्यानामुपकारकारकुशलं, सिद्धान्तपारंगतम् ।। नानादर्शनदर्शनामलधियं, ... सद्ब्रह्मचर्याञ्चितं । वन्देऽहं शुभपादपद्मयुगलं, तं नेमिसूरीश्वरम् ।। ४ ।। गीतार्थानुसृते तथाऽऽगमगते, पान्थं पथि प्रोद्यतं । विद्वद्वन्दसुवन्दितामलगुणं, विद्वद्सभाभासुरम् ।। यद्वाचा विमलाचलादिप्रभृतेः, संघा वरा निर्गता । वन्देऽहं शुभपादपद्मयुगलं, तं नेमिसूरीश्वरम् ।। ५ ।।

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264