Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 221
________________ है ० क्षमापनाष्टकम् । यानि कान्यपराधानि, वर्षेऽस्मिन् हि कृतानि च । संवत्सरीमहापर्वे, क्षमामि च क्षमन्तु मे ।। १ ।। कषायैर्दू षितश्याम, कृतं वैरेण मानसम् । संवत्सरी महापर्वे, क्षमामि च क्षमन्तु मे ॥ २ ॥ कदाचित् कोपितः श्रीमन् ! बाधितं यदि वत्तिषु । कृतोपसर्गो भवतां, क्षमामि च क्षमन्तु मे ॥ ३ ।। व्यवहार प्रवृत्ति वै, सर्वेषां जीवजन्मनाम् । तदर्थे दूषितं चित्तं, क्षमामि च क्षमन्तु मे ।। ४ ।। यत् यद्याचरितं पापं, प्रतिज्ञाभङ्गहेतुकम् । विधातु प्रात्मशुद्धिं हि, क्षमामि च क्षमन्तु वै ।। ५ ।। वक्ष्यमाणं महापापं, युष्माभिः गृहितं यदि । नाशितं स्नेहसंभारं, क्षमामि च क्षमन्तु मे ।। ६ ।। वणितं देवदेवेशः, शाश्वतं जिनशासनम् । सुमङ्गलाय पर्वेऽस्मिन्, क्षमामि च क्षमन्तु वै ।। ७ ।। दुष्कृतं कर्मसंयोगात्, मनसा वाचा च कर्मणा । कारितं विहितं सर्वं, क्षमामि च क्षमन्तु वै ।। ८ ।। ये सर्वेऽत्र भवे स्वकर्मवशगा जीवाऽखिला आगताः । ते सर्वे क्षमिता क्षमन्तु सततं संवत्सरी पर्वणि ।। मे सर्वेषु सदा भवन्तु सुखदा मैत्री न वैरं क्वचित । दुश्चिन्त्यं कथितञ्च दुष्प्रविहितं मिथ्यास्तु तद् दुष्कृतम् ।। ६ ।।

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264