Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
६।२३
]
षष्ठोऽध्यायः
[ ४३ * तीर्थङ्करनामकर्मणः प्रास्रवाः * के मूलसूत्रम्दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्याग-तपसी संघ-साधुसमाधि-वैयावृत्त्यकरण
महदाचार्य-बहुश्रुत-प्रवचनभक्तिरावश्यकापरिहारिणमार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥ ६-२३ ॥
* सुबोधिका टीका * एतानि षोडशकारणानि षोडशकारणभावनानि कथ्यन्ते । अनेन निमित्तेनैव तोर्थङ्करप्रकृतेः बन्धो जायते। अत्राद्यकारणं दर्शनविशुद्धिः । दर्शनविशुद्धिगुणं विना न कोऽपि हेतु-गुणतीर्थङ्करकर्मबन्धहेतुर्भवति । यत् सम्यग्दृष्टि जीव एव तस्य बन्ध-प्रारम्भ-कारणं मन्यते । परमप्रकृष्टा दर्शनविशुद्धिः, विनयसम्पन्नता च, शीलवतेष्वात्यन्तिको भृशमप्रमादाऽनतिचारः, अभीक्ष्णं ज्ञानोपयोगः संवेगश्च । यथाशक्तितस्त्यागस्तपश्च, संघस्य साधूनां च समाधिवैयावृत्त्यकरणम्, अर्हस्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिः सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्यापरिहाणिः, सम्यग्दर्शनादेः मोक्षमार्गस्य निहत्य मानं, करणोपदेशाभ्यां प्रभावना, श्रीअर्हच्छासनानुष्ठायिनां श्रुतधराणां बाल-वृद्ध-तपस्वि-शक्ष-ग्लानादीनां च सङ्ग्रहोपग्रहानुग्रहकारित्वं प्रवचनवत्सलत्वमिति । एते गुणाः समस्ता व्यस्ता वा श्रोतीर्थकरनाम्न प्रास्रवा भवन्ति इति ।। ६-२३ ।।
* सूत्रार्थ-सम्यग्दर्शन की विशुद्धि, विनयसम्पन्नता, शील और व्रतों में अत्यन्त अप्रमाद, ज्ञान में सतत उपयोग, तथा सतत संवेग गुण का धारण, यथाशक्ति त्याग और तप, संघ और साधु मुनिराजों की समाधि तथा वैयावच्च करना, श्रीअरिहन्त, प्राचार्य, बहुश्रुत और प्रवचन की विशुद्ध भाव से भक्ति, षड़ावश्यकों का भावपूर्वक अनुष्ठान, मोक्षमार्ग की प्रभावना और प्रवचन वात्सल्य । इन समस्त कारणों से या दर्शनविशुद्धि सहित अन्य न्यूनाधिक कारणों से तीर्थंकर नामकर्म का प्रास्रव होता है ।। ६-२३ ।।