Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
* श्रीजिनप्रतिमाष्टकम् *
OXXX
卐K
[ शार्दूलविक्रीडित - वृत्तम् ] मूत्तिः स्फूतिमयी सदा सुखमयी, लालित्यलीलामयी । दिव्यानन्दमयी प्रतापतरणी, सद्भावशोभामयी ।। नित्यं सद्वचनामृतः सुललितः, सिद्धा च सिद्धान्ततः । अज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ॥ १ ॥ सौम्या रम्यतरा गुणकवसतिः, सारस्वतीयं पुनः । गम्भीरा च समुद्रमुद्रमधुरा, माधुर्यधुर्यं - भृता ।। सद्भिस्से वितपादपद्ममनघा, द्रव्यादिभाव - मुंदा । प्रज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ।। २ ॥ सन्नामाऽऽकृति-द्रव्य-भावभरितः, शास्त्रानुग/धनैः । पौनः पुण्यमयैश्च सुष्ठुवचनैः, सद्रूपस्वीकारिता ॥ मूत्तिः श्रीजिनराज - राजमुकुटालङ्काररूपा सती। प्रज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ॥ ३ ॥ येषामत्र सुजीवनं सुललितं, लब्धञ्च पुण्यैः पर्णः । पूजालग्नमभूत्परैः सुखकरैर्भावः स्वभावैः परम् ।। तेषां धन्यतमत्वतत्त्वमगमत्, संमन्यतां मानुजं । अज्ञानावृतचेतसां - तनुजुषां, दृष्टिर्न तत्रेङ्गते ॥ ४ ॥ यैरेषा भगवत्-प्रतापललिता, मूतिर्न सम्पूजिता । स्वान्तान्तमय-र्धरापि बहुधा, भारीकृता भूरिशः ।। क्लिष्टं क्लिष्टतरञ्च वञ्चकमयं, सज्जीवनं यापितं । प्रज्ञानावृतचेतसां तनुजुषां दृष्टिर्न तत्रेङ्गते ॥ ५ ॥
Loading... Page Navigation 1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264