SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ * श्रीजिनप्रतिमाष्टकम् * OXXX 卐K [ शार्दूलविक्रीडित - वृत्तम् ] मूत्तिः स्फूतिमयी सदा सुखमयी, लालित्यलीलामयी । दिव्यानन्दमयी प्रतापतरणी, सद्भावशोभामयी ।। नित्यं सद्वचनामृतः सुललितः, सिद्धा च सिद्धान्ततः । अज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ॥ १ ॥ सौम्या रम्यतरा गुणकवसतिः, सारस्वतीयं पुनः । गम्भीरा च समुद्रमुद्रमधुरा, माधुर्यधुर्यं - भृता ।। सद्भिस्से वितपादपद्ममनघा, द्रव्यादिभाव - मुंदा । प्रज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ।। २ ॥ सन्नामाऽऽकृति-द्रव्य-भावभरितः, शास्त्रानुग/धनैः । पौनः पुण्यमयैश्च सुष्ठुवचनैः, सद्रूपस्वीकारिता ॥ मूत्तिः श्रीजिनराज - राजमुकुटालङ्काररूपा सती। प्रज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ॥ ३ ॥ येषामत्र सुजीवनं सुललितं, लब्धञ्च पुण्यैः पर्णः । पूजालग्नमभूत्परैः सुखकरैर्भावः स्वभावैः परम् ।। तेषां धन्यतमत्वतत्त्वमगमत्, संमन्यतां मानुजं । अज्ञानावृतचेतसां - तनुजुषां, दृष्टिर्न तत्रेङ्गते ॥ ४ ॥ यैरेषा भगवत्-प्रतापललिता, मूतिर्न सम्पूजिता । स्वान्तान्तमय-र्धरापि बहुधा, भारीकृता भूरिशः ।। क्लिष्टं क्लिष्टतरञ्च वञ्चकमयं, सज्जीवनं यापितं । प्रज्ञानावृतचेतसां तनुजुषां दृष्टिर्न तत्रेङ्गते ॥ ५ ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy