Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 159
________________ अपिच बौद्धाः' निखिलवासनोच्छेदेविगतविषयाऽऽकारोपप्लवविशुद्धज्ञानोत्पादो मोक्षः' इत्याहुस्तञ्च न घटते, कारणाऽभावादेव तदनुपपत्तेः- भावनाप्रचयो हि तस्य कारणमिष्यते, स च स्थिरैकाऽऽश्रयाऽभावाद् विशेषाऽनाधायकः, प्रतिक्षणमपूर्ववद् उपजायमानो निरन्वयविनाशी, गगनलङ्घनाभ्यासक्त् अनासादितप्रकों न स्फुटाभिज्ञानजननाय प्रभवति, इत्यनुपपत्तिरेवतस्य । समलचित्तक्षणानां स्वाभाविक्या: सदृशाऽऽरम्भणशक्तेर-सदृशाऽऽरम्भं प्रत्यशक्तेश्च, अकस्मादनुच्छेदात् । किं च, समलचित्तक्षणाः पूर्वे स्वरसपरिनिर्वाणा: २, अयमपूर्वो जातः सन्तानश्चैको न विद्यते, बन्धमोक्षौ चैकाऽधिकरणौ; नविषयभेदेन वर्तते । तत्कस्येयं मुक्तिर्य एतदर्थ प्रयतते । अयं हि मोक्षशब्दो बन्धनच्छेदपर्यायः । मोक्षश्च तस्यैव घटते यो बद्धः,,क्षणक्षयवादे त्वन्यः क्षणो बद्धः । क्षणाऽन्तरस्य च मुक्तिरिति प्राप्नोति मोक्षाऽभावः ।। तथा स्मृतिभङ्गदोषः, तथा हि-पूर्वबुद्धानुभूतेऽर्थे नोत्तरबुद्धीनां स्मृतिः संभवति, ततोऽन्यत्वात्, सन्तानाऽन्तरबुद्धिवत् । न ह्यन्यदृष्टोऽर्थोऽन्येन स्मर्यते, अन्यथा एकेन दृष्टोऽर्थः सर्वैः स्मर्येत स्मरणाऽभावे च कौतस्कुती प्रत्यभिज्ञाप्रसूतिः । तस्याः स्मरणाऽनुभवोभयसंभवत्वात्- पदार्थप्रेक्षणप्रबुद्धप्राक्तन-संस्कारस्य हि प्रमातुः स एवायमित्याकारेण इयमुत्पद्यते । अथ स्यादयं दोषः, यद्यविशेषेणाऽन्यदृष्टमन्यः स्मरतीत्युच्यते। किन्तु, अन्यत्वेऽपि कार्यकारणभावाद् एव च स्मृतिः, भिन्नसंतानबुद्धीनां तु कार्यकारणभावो नास्ति, तेन सन्तानाऽन्तराणां स्मृतिर्न भवति । न चैकसांतानिकीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्वबुद्ध्यनुभूतेऽर्थे तदुत्तरबुद्धीनां स्मृतिर्न स्यात् । तदप्यनवदातम्, एवमपि अन्यत्वस्य तदवस्थत्वात्, न हि कार्यकारणभावाऽभिधानेऽपि तदपगतं, क्षणिकत्वेन सर्वासां भिन्नत्वात् । न हि कार्यकारणभावात् स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः अथ 'यस्मित्रेव हि सन्ताने आहिता कर्मवासना। .. फलं तत्रैव संधत्ते कासे रक्तता यथा' ।।१।। इति कर्पासे रक्ततादृष्टान्तोऽस्तीतिचेत् । तदसाधीयः, साधनदूषणयोरसम्भवात्, । १. सर्व क्षणिकं सर्वं क्षणिकमिति धारावाहिकबुद्धिरूपा भावनास्तासां प्रचयः समुदायः । २. परिनिर्वाण:-लयः । ३. कुत: कुत आगता प्रत्यभिज्ञाया: प्रसूतिः-उत्पत्तिः । ४. असंगतम् । स्याद्वादमञ्जरी AMARNAMAAAAAAAA(१३३)

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306