Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 272
________________ तथाप्यन्योऽन्यस्मिन्नन्योऽन्याऽऽत्मकतामन्योन्यधर्मांश्चाऽध्यस्येतरेतरविवेकेनाऽत्यन्तविविक्तयोर्धर्मधर्मिणोमिथ्याज्ञाननिमित्तः सत्याऽनृते मिथुनीकृत्य 'अहमिदं' 'ममेदमिति' नैसर्गिकोऽयं लोकव्यवहारः । आह-कोऽयमध्यासो नामेति । उच्यतेस्मृतिरूप: परत्र पूर्वदृष्टाऽवभासः । तं केचित्-अन्यत्राऽन्यधर्माऽध्यासइति वदन्ति । केचन यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम-इति ।। अन्ये तु यत्र यदध्यासस्तत्रैव विपरीतधर्मत्वकल्पनामाचक्षते; इति ।। सर्वथाऽपि त्वन्यस्याऽन्यधर्माऽवभासतां न व्यभिचरति । तथा च लोकेऽनुभवःशुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति । कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थिते विषये विषयाऽन्तरमध्यस्यति, युष्मत्प्रत्ययाऽपेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि । उच्यते । न तावदयमेकान्तेनाऽविषयः अस्मत्प्रत्ययविषयत्वात्, अपरोक्षत्वाञ्च प्रत्यगात्मप्रसिद्धेः । न चाऽयमस्ति नियमः पुरोऽवस्थित एव विषये विषयाऽन्तरमध्यसितव्यमिति; अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति । एवमविरुद्धः प्रत्यगात्मन्यनात्माऽध्यासः । तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते; तद्विवेकेन च वस्तुस्वरूपाऽवधारणं विद्यामाहुः । तत्रैवं सति यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाऽणुमात्रेणाऽपि स न सम्बध्यते । तमेतमविद्याख्यमात्माऽनात्मनोरितरेतरांऽध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणि । कथं पुनरविद्यावद्विषयानि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति । उच्यते । देहेन्द्रियाऽऽदिष्वहंममाऽभिमानरहितस्य प्रमातृत्वाऽनुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः। नहीन्द्रियाण्यनुपादाय प्रत्यक्षाऽऽदिव्यवहारः सम्भवति । नचाऽधिष्ठानमन्तरेणेन्द्रियाणां व्यवहारः सम्भवति । नचाऽनध्यस्ताऽऽत्मभावेन देहेन कश्चिद्व्याप्रियते । नचैतस्मिन्सर्वस्मिन्नसति असङ्गस्याऽऽत्मनः प्रमातृत्वमुपपद्यते । न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति । । तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च । पश्वादिभिश्चाऽविशेषात् ।। यथा हि पश्वादयः शब्दादिभिः श्रोत्रादिनां सम्बन्धे सति, शब्दाऽऽदिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते अनुकूले च प्रवर्तन्ते यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य मां हन्तुमयमिच्छतीति पलायितुमारभन्ते, (२४६ANTRAdhikakkar स्याद्वादमञ्जरी)

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306