Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 278
________________ व्यङ्ग्यजातिविशेषाञ्चेत् प्राप्तमन्योऽन्यसंश्रयम् । तस्मात् स्वाभाविको भेदो जातिव्यक्तयोः प्रतीयते ।।५० ।। अनेकाऽनन्यवृत्तित्त्वान्न सामान्यविशेषयोः । एकवस्त्वात्मता युक्ता किं चित्तेनौपचारिकम् ।।५१।। भिन्नेभ्यश्चाऽप्यभिन्नत्वाद्भेदस्तत्स्वात्मवद्भवेत् । एकस्माद्वाऽप्यभिन्नत्वाद्व्यक्तयेकत्वं प्रतीयते ।।५२ ।। एकाऽनेकत्वमेकस्य तथाऽन्याऽनन्यता कथम् । तत्सामान्यं विशेषश्चेत्येवमादि च दुष्करम् ।।५३।। । विरोधस्तावदेकान्ताद्वक्तुमत्र न युज्यते । सामान्याऽनन्यविज्ञाते विशेषे नैकवृत्तिता ।।५४ ।। सामान्याऽनन्यवृत्तित्वं विशेषाऽऽत्मैकभावतः । एवञ्च परिहर्तव्या भिन्नाऽभिन्नत्वकल्पनाः ।।५५।। . केनचिद्ध्यात्मनैकत्वं नानात्वं चाऽस्य केनचित् । सामान्यस्य तु यो भेदं ब्रूते तस्य विशेषतः ।।५६।। दर्शयित्वाऽभ्युपेतव्यं विशेषैक्यं च जातितः । यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः ।।५७ ।। चित्रत्वाद्वस्तुनोऽप्येवं भेदाऽभेदाऽवधारणम् ।। सामान्यांऽशे तु निष्कृष्य भेदो येन प्रसाध्यते ।।५८ ।। तस्य हेतोरसिद्धत्वं सिद्धश्चेत् सिद्धसाधनम् । भेदेभ्योऽनन्यरूपेण सामान्यं गृह्यते यदा ।।५९।। तदा विशेषमात्रेण वस्तु प्रत्यवभासते । तदुद्भूत्या च सामान्यं तद्भावाऽनुगुणं स्थितम् ।।६० ।। (२५२itinuirinkuntinuintuk स्याद्वादमञ्जरी

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306