Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
वह्निसन्निधानाच्छीतस्पर्शवत्। किं भाववासना । अनवरताऽग्रसंसाराऽभ्यस्तवस्तुसद्ग्राहाऽध्यवसानवासना । तस्या भूताऽर्थत्वात्। वस्तुनिजस्वभावत्वाञ्च ।। इतरथा अलीकत्वादागन्तुकत्वाञ्च ।
ननु भावाऽभिनिवेशो वा शून्यताऽभिनिवेशो वा । इति नाऽभिनिवेशं प्रति कश्चिद्विशेषः। तस्याऽपि कल्पनास्वभावाऽनतिक्रमात् । यदाह
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः । येषां तू शून्यतादृष्टिस्तानसाध्यान् बभाषिरे ।।' इति एतत्परिहर्तुमाह । किंचिन्नास्तीत्यादि । किंचिन्नास्तीति चाभ्यासात्साऽपि पश्चात्प्रहीयते ।।३।। . किंचिदितिभावो वा शून्यता वा. । नास्ति न विद्यते । च शब्दः पूर्वाऽपेक्षया । समुच्चये । इत्येवं चाऽभ्यासात् । भाववासनाप्रहाणस्य पश्चात् सापि शून्यतावासनापि प्रहीयते निवर्तते ।। अयमभिप्रायः । शून्यता आवेधो हि भावाऽभिनिवेशस्य । प्रतिपक्षत्वात्। प्रहाणोपायभूतो । अधिगते चोपेये पश्चात्कालोपमत्वात् । उपायस्याऽपि प्रहाणमनुष्ठीयते। एतदेवाह ।'
'सर्वसंकल्पहानाय शून्यताऽमृतदेशना । ___ यश्च तस्यामपि ग्राहस्त्वयाऽसाववसादितः ।। इति ।। .
२० श्लोके चार्वाकमतं खण्डितं चार्वाकग्रन्थास्तु नोपलभ्यन्तेऽधुना । तथापि तन्मतं सर्वजनप्रसिद्धमतस्तद्विषये न प्रयत्यते । _____एतदने स्वमतं साधितं तेन खण्डनीयानामंशानां प्रदर्शनस्य प्रसङ्ग एव । नास्तीति विरम्यते । संकलितश्चाऽयं पूर्वपक्षप्रबन्धः श्रीलाधाजीतनुजनुषा विदुषा मोतीलालेन । इति शम् ।
(२५०/AAAAAAAAAAMANA स्याद्वादमञ्जरी)
Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306