Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 282
________________ . ननु निर्विकल्पकत्वात्प्रत्यक्षमेव नीलबोधरूपत्वेनाऽऽत्मानमवस्थापयितुं शक्नोति । निश्चयप्रत्ययेनाऽव्यवस्थापितं सदपि नीलबोधरूपं विज्ञानमसत्कल्पमेव । तस्मानिश्चयेन नीलबोधात्मना सद्भवति । तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति । जनिते त्वध्यवसाये नीलबोधरूपत्वेनाऽव्यवस्थापितं भवति विज्ञानम् । तथा च प्रमाणफलमर्थाधिगरूपत्वमनिष्पन्नम् । अतः साधकतमत्वाभावात्प्रमाणमेव न स्याज्ज्ञानम्। जनितेन त्वध्यसायेन सारूप्यवशानीलबोधरूपे ज्ञानेऽव्यवस्थाप्यमाने सारूप्यं व्यवस्थापनहेतुत्वात्प्रमाणं सिद्धं भवति । यद्येवमध्यवसायसहितमेव प्रत्यक्षं प्रमाणं स्यान केवलमिति चेद् । नैतदेवम् । यस्मात्प्रत्यक्षबलोत्पवेनाऽध्यवसायेन दृष्टत्वेनाऽर्थोऽवसीयते नोत्प्रेक्षितत्वेन । दर्शनं चाऽर्थसाक्षाकरणाऽऽख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु विकल्पव्यापारः। तथाहि परोक्षमर्थं विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इत्युत्प्रेक्षाऽऽत्मकं विकल्पव्यापारमनुभवादवस्यन्ति । तस्मात्स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति। यत्राऽर्थे प्रत्यक्षपूर्वकोऽध्यवसायस्तत्र प्रत्यक्षं केवलमेव प्रमाणम् ।।२०।। लक्षणविप्रतिप्रत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह- ... प्रमाणफलव्यवस्थाऽत्राऽपि प्रत्यक्षवत् ।।२-४।। प्रमाणस्य यत्फलं तस्य या व्यवस्थाऽत्राऽनुमानेऽपि प्रत्यक्ष इव वेदितव्या । यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते । तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम् । नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम् । तद्वदनुमानं नीलाकारमुत्पद्यमानं नीलबोधरूपमवस्थाप्यते । तेन नीलसारूप्यमस्य प्रमाणम् । नीलविकल्पनरूपं त्वस्य प्रमाणफलम् । सारूप्यवशाद्धि तन्नीलप्रतीतिरूपं सिध्यति । नान्यथेति । एवमिह संख्यालक्षणफलविप्रतिपत्तयः । प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिनिराकृता ।।४।।' तत्रैव-संर्वं सत् क्षणिकमिति बौद्धमतं खण्डितं तत्र तन्मतं मोक्षाकरगुप्तोक्तं ग्रन्थकृता प्रदर्श्यते । मोक्षाकरगुप्तग्रन्थस्तु नेदानीमुपलभ्यतेऽतस्तत्प्रदर्शयितुं न शक्यते । (२५६) M arrikar स्याद्वादमञ्जरी

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306