Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 271
________________ प्रवाहयति , स प्रावाहणिः । बवर इति शब्दाऽनुकृतिः । तेन यो नित्योऽर्थस्तमेवैतौ शब्दौ वदिष्यतः । अत उक्तं, परन्तु श्रुतिसामान्यमात्रमिति ।।३१।। उत्तरम् ।। कृते वा विनियोगः स्यात् कर्मणः सम्बन्धात् ।।१-१-३२।। .. .... अथ कथमवगम्यते-नाऽयमुन्मत्तबालवाक्यसदृश इति । तथाहि पश्यामःवनस्पतयः सत्रमासत, सर्पाः सत्रमासतेति । यथा, जरद्गवो गायति मत्तकानि । कथं नाम जरद्रवो गायेत । कथं वा वनस्पतयः सर्पा वा सत्रमासीरनिति । उच्यते । विनियुक्तं हि दृश्यते परस्परेण सम्बन्धाऽर्थम् । कथम् । ज्योतिष्टोम इत्यभिधाय, कर्तव्य इत्युच्यते । केनेत्याकाङ्किते,सोमेनेति । किमर्थमिति स्वर्गायेति । कथमिति इत्थमनया इति कर्तव्यतयेति । एवमवगच्छन्तः; पदाथैरेभिः संस्कृतं पिण्डितं वाक्याऽर्थं कथमुन्मत्तबालवाक्यसदृशमित्ति वक्ष्यामः ? ।। नन्वनुपपन्नमिदं दृश्यते, वनस्पतयः सत्रमासतेत्येवमादि । नाऽनुपपन्नम् । नाऽनेन, अग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमादयोऽनुपपन्नाः स्युः । अपि च, वनस्पतयः सत्रमासतेत्येवमादयोऽपि नाऽनुपपन्नाः। स्तुतयो ह्येताः सत्रस्य । वनस्पतयो नामाचेतना इदं सत्रमुपासितवन्तः, किं पुनर्विद्वांसो ब्राह्मणास्तद्यथा लोके संध्यायां मृगा अपि न चरन्ति किं पुनर्विद्वांसो ब्राह्यणा इति । अपिच अविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथमिवाऽऽशङ्कयेत उन्मत्तबालवाक्यसदृश इति । तस्माञ्चोदनालक्षणोऽर्थो धर्म इति सिद्धम् ।।३।। श्लो. १३ ब्रह्माऽद्वैतमतं खण्डितम् । तदर्थं द्वैतमूलस्याऽध्यासस्य वर्णन श्रीशंङ्कराऽऽचार्यकृतम्। अथाऽतो ब्रह्मजिज्ञासा ।१।११। इति सूत्रे. 'युष्मदस्मत्प्रत्ययगोचरयोविषयविषयिणोस्तम:प्रकाशवविरुद्धस्वभावयोरितरेतरभावानुपपत्तो सिद्धायां तद्धर्माणामपि सुतरामितररेतरभावाऽनुपपत्तिः इत्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाऽध्यासः, तद्विपर्ययेण विषयिणस्तद्धर्माणाञ्च विषयेऽध्यासो मिथ्येति भवितुं .युक्तम् । स्याद्वादमञ्जरी AMARN MAA२४५)

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306