Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 275
________________ परस्परविभिन्नत्वाद्विशेषा नैकबुद्धिभिः । गृह्यन्ते विषयाऽसत्त्वाच्छक्तिश्चैषां न विद्यते ।।१५।। भिन्नत्वे वाऽपि शक्तीनामेकबुद्धिर्न लभ्यते । विशेषशक्त्यभेदे च तावन्मात्रमतिर्भवेत् ।।१६।। भिन्ना विशेषशक्तिभ्यः सर्वत्राऽनुगताऽपि च । ... प्रत्येकं समवेता च तस्माज्जातिरपीष्यताम् ।।१७।। . तेनाऽऽत्मधर्मो भेदानामेकधीविषयोऽस्ति नः । सामान्यमाकृतिर्जातिः शक्तिर्वा सोऽभिधीयताम् ।।१८।। ननु भिन्नेऽपि सत्तादौ सामान्यमिति जायते । . बुद्धिविनाऽपि सामान्यादन्यस्मात्सा कथं भवेत् ।।१९।। वनोपन्यासतुल्योऽयमुपन्यासः कृतस्त्वया । भ्रान्तित्वेन हि नैतस्या भ्रान्ति!त्वाऽऽदिधीरपि ।।२०।। ... शब्दात्पूर्वं हि सर्वेषु गवादाविव नैकधीः । वस्तुत्वं चाऽत्र सामान्यं धर्म केचित्प्रचक्षते ।।२१।। एवं तु कल्प्यमाने स्यात्सामान्यानामनन्तता । पुनस्तेन सहाऽन्येषु सामान्यमतिरस्ति हि ।।२२।। विशेषेष्वपि वस्तुत्वात्सामान्यमिति धीर्भवेत् । सत्तादिष्विव तेनैतत्सामान्यं नोपपद्यते ।।२३।। .. तस्मादेकस्य भिन्नेषु या वृत्तिस्तनिबन्धनः । . सामान्यशब्दः सत्तादावेकधीकरणेन वा ।।२४।। . पिण्डेष्वेव च सामान्यं नाऽन्तरा गृह्यते यतः । न ह्याकाशवदिच्छन्ति सामान्यं नाम किंचन ।।२५।। यद्वा सर्वगतत्वेऽपि व्यक्तिः शक्तयनुरोधतः । शक्तिः कार्यानुमेया हि व्यक्तिदर्शनहेतुका ।।२६।। स्याद्वादमञ्जरी hindiARANAMANA२४९

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306