Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 269
________________ फलं तावदधर्मोऽस्य श्येनाऽऽदेः सम्प्रधार्यते । 'यदि येनेष्टसिद्धिः स्यादनुष्ठानाऽनुबन्धिनी ।।२७०।। तस्य धर्मत्वमुच्येत ततः श्येनाऽऽदिवर्जनम् । यदा तु चोदनागम्यः कार्याऽकार्याऽनपेक्षया ।।२७१।। धर्मः प्रतिनिमित्तं स्यात्तदा श्येनेऽपि धर्मता । यदि त्वप्रीतिहेतुर्यः साक्षाद् व्यवहितोऽपि वा' ।।२७२।। सोऽधर्मश्चोदनार्थः स्यात्तदा श्येनेऽप्यधर्मता । यस्तु हिंसात्वसाधाद्वाह्यवञ्चोदनास्वपि ।।२७३।। वदेदनर्थहेतुत्वं तस्याऽप्यागमबाधनम् । तमनादृत्य यो ब्रूयाद्यागादेरप्यसौ वदेत् ।।२७४ ।। स्वर्गाऽऽदिसाधनाशक्तिं क्रियात्वाद्भोजनादिवत् । गीतामन्त्रार्थवादेर्या कल्प्यतेऽनर्थहेतुता ।।२७५ ।। प्रत्यक्षश्रुतिबाध्यत्वात्साऽन्याऽर्थत्वेन नीयते ।। शिष्यान्प्रत्यविशिष्टत्वात्सूत्रवैदिकवाक्ययोः ।।२७६।। तत्रैव स्याद्वादमञ्चर्यां स हि पौरुषेयो वा स्यादपौरुषेयो वा इत्यादि विकल्प्य खण्डितं तदर्थं मीमांसकंमतम् (जैमिनिसूत्राणि २७-३२ शाबरभाष्यसहितानि). वेदांश्चैके सत्रिकर्षं पुरुषाऽऽख्या ।।१-१-२७॥ . उक्तं चोदनालक्षणाऽर्थो धर्म इति । यतो न पुरुषकृतः शब्दस्याऽर्थेन सम्बन्धः । तत्र पदवाक्याश्रय आक्षेपः परिहतः । इदानीं अन्यथाऽऽक्षेप्स्यामः । पौरुषेयाश्चोदना इति वदामः । सन्निकृष्टकालाः कृतका वेदा इदानीन्तनाः । ते च चोदनानां समूहाः । तत्र पौरुषेयाश्चेद्वेदा असंशयं पौरुषेयाश्चोदनाः कथं पुनः, कृतका वेदा इति केंचिन्मन्यन्ते । यतः, पुरुषाऽऽख्याः । पुरुषेण हि समाख्यायन्ते वेदाः काठकं, कलापकं, पैप्पलादकं, मौहुलमिति । न हि सम्बन्धादृते समाख्यानम् । स्याद्वादमञ्जरी MAAAAAAAAAnnasal२४३)

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306