Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 179
________________ संलीनो भवतीति भावः । न प्रेत्य संज्ञास्ति । मृत्वा पुनर्जन्म प्रेत्येत्युच्यते तत्संज्ञास्ति न परलोकसंज्ञास्तीति भावः । ततः कुतो जीवः युक्त्योपपत्रश्चायमर्थ इति ते मतिः । यतो नासौ प्रत्यक्षेण परिगृह्यते अतीन्द्रियत्वात् । नाप्यनुमानेन यतस्तल्लिङ्गलिङ्गिपूर्वकञ्च । न चात्र लिङ्गिना सह सम्बन्धः प्रत्यक्षगम्यो लिङ्गिनोऽतीन्द्रियत्वात् । नाप्यनुमानगम्योऽनवस्थाप्रसक्तेस्तदपि हि लिंङ्गलिंङ्गिसम्बन्धग्रहणपूर्वकं तत्रापि चेयमेव वार्ता, इत्यनवस्थानुषङ्गः । माप्यागमगम्यः परस्परविरुद्धार्थतया तथागमानां प्रमाणत्वाभावात् । तथाहि केचिदेवमाहुः ‘एतावानेन लोकोऽयं यावदिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुताः ' ।।१।। इत्यादि । अपरे प्राहुर्न रूपमीक्षवः पुद्गला इत्यादि पुद्गले रूपं निषेधयन्ति । अन्तर्भूत आत्मेत्यर्थः । अन्ये पुनरेवम् "अकर्ता निर्गुणो भोक्ता" इत्यादि । अपरे एवम् “स वै अयमात्मा ज्ञानमय' इत्यादि । न चैते सर्व एव प्रमाणम् । परस्परविरोधात् । व्यर्थाभिधायकपरस्परविरुद्धवाक्यपुरुषवातवत् । आत्मानं विद्मः किमस्ति नास्तीत्ययं तवाभिप्रायः । तत्र वेदपदानां चार्थं न जानासि । चशब्दाधुक्तिद्वयं च । तथाहि वेदपदानां अयमर्थः । विज्ञानघन एवेति ज्ञानोपयोगदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघनः प्रतिप्रदेशमनन्तविज्ञानपर्याय: संपातात्मक़त्वात् वा विज्ञानघन एवशब्दोऽवधारणे विज्ञानघनादनन्यघनत्वात् विज्ञानघन एव । एतेभ्यो भूतेभ्यः क्षित्युदकादिभ्यः समुत्थाय कथंचिदुत्पद्येति । घटविज्ञानपरिणतो हि आत्मा घटाद्भवति तद्विज्ञानक्षयोपशमनस्य तत्राक्षेपत्वात् अन्यथा निरालम्बनतया तस्य मिथ्यात्वप्रसक्तेरेवं सर्वत्र भावनीयम् । तत उक्तं तेभ्यः समुत्थाय कथंचिदुत्पद्येति पुनस्तानेव भूतानि अनुविनश्यति । ते विवक्षितेषु भूतेषु व्यवहितेषु वा आत्मापि तद्विज्ञानधनात्मना उपरमते अन्यविज्ञानात्मना उत्पद्यते । यदि वा सामान्यचैतन्यरूपतयाऽवतिष्ठत इति न प्रेत्य संज्ञास्ति न प्रावृतिकघटादिविज्ञानसंज्ञाऽवतिष्ठते । सांप्रतविज्ञानोपयोगनिनितत्वात् अथवा एवं व्याख्या विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यतीत्येतन यत: प्रेत्य संज्ञास्ति परलोकसंज्ञास्ति । यदप्युक्तं नासौ प्रत्यक्षेण परिगृह्यते इति तदप्यसमीचीनम्, आत्मनः प्रत्यक्षसिद्धात्तर्नुणस्य ज्ञानस्य स्वसंवेदनप्रमाण सिद्धत्वात्तथाहि स्वसंविदिता एवावग्रहेहापायादय उदयन्ते लीयन्ते वा । ततस्तद्गुणस्य स्वसंविदितत्वात् सिद्धमात्मनः प्रत्यक्षत्वम् । अथ ब्रवीष्व भूतगुणाश्चैतन्यं । तथा वेदेप्युक्तम् 'एतेभ्यो भूतेभ्यस्समुत्थायेत्यादि' । ततः कथं ज्ञानस्य स्वसंविदितत्वे ते आत्मनः प्रत्यक्षत्वं, ज्ञानस्यात्मत्राणत्वाभावात् । तदयुक्तम् । भूतगुणत्वे सति पृथिव्याः काठिन्यस्यैव सर्वत्र चोपलम्भप्रसङ्गात् । न च सर्वत्र सर्वदा चोपलभ्यते चैतन्यं लोष्ठादौ मृतावस्थायां चानुपलम्भात् । अथ तत्रापि चैतन्यमस्ति । केवलं शक्तिरूपेण ततो नोपलभ्यते तदसम्यग् । विकल्पद्वयानतिक्रमात् । साहि शक्तिचैतन्याद्विलक्षणा उत चैतन्यमेव । यदि विलक्षणा ततः कथमुच्यते शक्तिरूपेण चैतन्यमस्ति । न हि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुं शक्यं तथा चाहान्योऽपि 'रूपान्तरेण यदि तत्तदेवास्तीति मा रटीः । चैतन्यादन्यरूपस्य भावे तद्विद्यते कथम् ।।१।।' अथ द्वितीय: पक्षस्तर्हि चैतन्यमेव तत्कथमनुपलम्भः । आवृतत्वादनुपलम्भ इति चेत्, तत्त्वावृत्तिरावरणं तञ्चावरणं किं, भूतानां विवक्षितपरिणामानामुत परिणामान्तर माहोस्विदन्यदेव भूतातिरिक्तं किंचित् । तत्र न तावद्विवक्षितपरिणामाभाव: एकान्ततुच्छरूपतया स्याद्वादमञ्जरी Muktak १५३)

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306