________________
ननु द्रव्यगुणकर्मभ्यः पृथक् भावेन सत्ता नाऽनुभूयतेऽतो द्रव्याद्यन्यतममेव सत्ता । यतो हि यद् भिन्नं भवति तत्ततो भेदेनाऽनुभूयते यथा घटः पटात्, न च सत्ता तेभ्यो भेदेनानुभूयते इति तदाऽत्मिकैवेत्यत आह
द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता ।। १-२-८ ।।
द्रव्याऽऽदयोऽननुगताः सत्ता चानुगता । तथा च अनुगतत्वाननुगतत्वलक्षणविरुद्धधर्माध्यासेन तेभ्यो भेदस्य सिद्धत्वात् । यत्तु तेभ्योऽन्यत्र नोपलभ्यते तदयुतसिद्धिबलात् । घटपटयोस्तु युतिसिद्धिः । न च व्यक्तिस्वरूपमेव सत्ता, व्यक्तीनामननुगमात् । स्वरूपत्वं यद्यनुगतं तदा सैव सत्ता, अनुगतैरपि स्वरूपैरनुगतव्यवहारश्चेत्तदा गोत्वाऽदिभिरपि गतम् । अत एव यत्र सत्ता समवैति तादृशैराधारैरेव तद्व्यवहारोपपत्तौ किं सत्तयेत्यपास्तम् । अत एवाऽर्थक्रियाकारित्वं प्रामाणिकत्वं वा सत्त्वमित्ययुक्तं तदनंनुसन्धानेऽपि सत् इति प्रत्ययात् ॥ ८ ।।
भेदकाऽन्तरमाह
गुणकर्मसु च भावान कर्म न गुणः ।। १-२-९ ।।
न गुणो न कर्मेति वक्तव्ये व्यत्ययेनाऽभिधानं न द्रव्यमित्यपि सूचयति । न हि कर्मसु वर्तते । न वा गुणो गुणेषु । न वा द्रव्यं गुणे कर्मणि वा । सत्ता तु गुणे कर्मणि च वर्तते । न द्रव्यगुणकर्मवैधर्म्यात्तेभ्यो भिन्नैव सत्ता ।।९।।
भेदकाऽन्तरमाह
सामान्यविशेषाऽभावेन च ।। १-२-१० ।।
.
यदि सत्ता द्रव्यं गुणः कर्म वा स्यात् तदा सामान्यविशेषवती स्यात् । न च सत्तायां सामान्यविशेषा द्रव्यत्वाऽऽदय उपलभ्यन्ते । न हि भवति सत्ता द्रव्यं गुणः कर्म वेति केषाञ्चिदनुभवः ।। १० ।।
ननु सत्ता द्रव्यगुणकर्मसु वर्तमाना द्रव्यत्वाद्यवच्छेदभेदेन भिन्नैव कथं न
स्याद्वादमञ्जरी
२२८४४४४