Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 258
________________ दुःखनिवृत्तिरेवोक्तरूपा निःश्रेयसमिति। श्लो. ९ स्याद्वादमञ्जर्यामात्मनो विभुत्वस्य खण्डनं तदर्थमात्मनो विभुत्वं प्रशस्तपादभाष्ये आत्मप्रकरणे-'तथा चात्मेतिवचनात्परममहत्परिमाणम्' । किं च गौतमसूत्रेषु वात्स्यायनभाष्ये-(३-२-२०, २१) . 'योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीराऽन्तराणि तेषु तेषु युगपज्ज्ञेयानुपलभते । तच्चैतद्विभौ ज्ञातर्युपपद्यते नाऽणौ मनसीति । विभुत्वे वा मनसो ज्ञानस्य नाऽऽत्मगुणत्वप्रतिषेधः । विभु मनस्तदन्तःकरणभूतमिति तस्य सर्वेन्द्रियैर्युगपत्संयोगाद्युगपज्ज्ञानान्युत्पद्येरनिति ।।२०।। तदात्मगुणत्वेऽपि तुल्यम् ।।३-२-२१॥ विभुरात्मा सर्वेन्द्रियैः संयुक्त इति युगपज्ज्ञानोत्पत्तिप्रसङ्ग इति ।।२१।। तत्रैव स्याद्वादमञ्जयां 'त्वयाऽऽत्मनां बहुत्वमिष्यते' इत्यादिनाऽऽत्मनानात्वं खण्ड्यते । तदर्थ आत्मनानात्वं प्रशस्तपादभाष्ये-आत्मनिरूपणे'व्यवस्थावचनात्संख्यापृथक्त्वमप्यत एव' । वैशेषिकसूत्रोपस्कारे (३-२-२०) सिद्धान्तमाह व्यवस्थातो नाना ।।३-२-२०।। - नाना आत्मानः कुतः व्यवस्थातः । व्यवस्थाः प्रतिनियमः यथा कश्चिदाढ्यः कश्चिद् रङ्कः, कश्चित्सुखी, कश्चिदुःखी कश्चिदुञ्चाभिजनः, कश्चिनीचाभिजनः, कश्चिद्विद्वान्, कश्चिज्जाल्म इतीयं व्यवस्था आत्मभेदमन्तरेणाऽनुपपद्यमाना साधयत्यात्मना भेदम् । न च जन्मभेदेन बाल्यकौमारवार्धक्यभेदेन वा, एकस्याऽप्यात्मना यथा व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वाच्यम् । कालभेदेन विरुद्धधर्माऽध्याससम्भवात्' ।।२०।। श्लो. १० स्याद्वादमञ्जर्यां छलादिविषये यदुक्तं तज्ज्ञानार्थं छलादिप्रतिपादकानि न्यायसूत्राणि १०-२० (अ. १।२।१०-२०) (२३२NNNNNNNNNhainin.in स्याद्वादमञ्जरी)

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306