Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 257
________________ प्रत्यक्षवेद्यताऽपि । योगिनां योगजधर्मबलेनाऽऽगामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाञ्च । तथाऽपि तुल्याऽऽयव्ययया नाऽयं पुरुषार्थो, दुःखवत्सुखस्याऽपि हानेः द्वयोरपि समानसामग्रीकत्वादिति चेद्, उत्सर्गतो वीतरागाणां दुःखदुर्दिनभीरूणां सुखखद्योतिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः । ननु तथापि दुःखनिवृत्तिर्न पुरुषार्थः अनागतदुःखनिवृत्तेरशक्यत्वात् । अतीतदुःखस्याऽतीतत्वात् वर्तमानदुःखस्य पुरुषप्रयत्नमन्तरेणैव निवृत्तेरिति चेन्न । हेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवत् । तथाहि सवासेन मिथ्याज्ञानं संसारहेतुस्तदुच्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानञ्च योगविधिसाध्यमिति तदर्थ प्रवृत्त्युपपत्तेः । ननु नित्यसुखाऽभिव्यक्तिरेव मुक्तिन्तु दुःखाभाव इति चेन्न नित्यसुखे प्रमाणाऽभावात् । भावे वा नित्यं तदभिव्यक्तेर्मुक्तसंसारिणोरविशेषापाताद् अभिव्यक्तरुत्पाद्यत्वेन तनिवृतौ पुनः संसाराऽऽपत्तेश्च । ... - ब्रह्माऽऽत्मनि जीवाऽऽत्मलयो मुक्तिरिति चेन्न । लयो यद्येकीभावस्तदा बाधात् नहि द्वयमेकं भवति । लिङ्गशरीराऽपगमो. लयो लिङ्गश्चैकादशेन्द्रियाणि । तेषां शरीरस्य च विगमो लय इति चेन । एतावता दुःखसामग्रीविरहस्योक्तत्वात् । तथा च दुःखाऽभाव एव मुक्तिरिति पर्यवसानात्। एतेनाऽविद्यानिवृत्तौ केवलाऽऽत्मस्थितिर्मुक्तिः आत्मा च विज्ञानसुखाऽऽत्मकः इत्येकदण्डिमतमपास्तम्। आत्मनो ज्ञानत्वे सुखत्वे च प्रमाणाऽभावात् । न च 'नित्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतिर्मानम् । तस्या ज्ञानवत्त्वा- ऽऽनन्दवत्त्वप्रतिपादकत्वात् । भवति हि अहं जाने अहं सुखीति प्रतीतिः नत्वहं ज्ञानं अहं सुखमिति । किञ्च ब्रह्मणो इदानीमपि सत्त्वाद् मुक्तसंसारिणोरविशेषाऽऽपत्तिः अविद्यानिवृत्तेश्चाऽपुरुषार्थत्वाद् ब्रह्मणश्च नित्यत्वेनाऽसाध्यत्वात्, तत्साक्षात्कारस्य तदात्मकत्वेनाऽसाध्यत्वात्, एवमानन्दस्याऽपि तदात्मकत्वेनाऽसाध्यत्वमेवेति तदर्थं प्रवृत्त्यनुपपत्तिरेव । निरुपप्लवा चित्सन्ततिर्मुक्तिरिति चेन । दुःखादिरूपस्य उपप्लवस्य विगमो यदि निरुपप्लवत्वं तदा तन्मात्रस्यैव पुरुषार्थत्वेन चित्सन्ततेरनुवृत्तौ प्रमाणाऽभावः तदनुवृत्तेरपि शरीराऽऽदिसाध्यत्वेन संसारानुवृत्तेरावश्यकत्वादिति सिद्धं स्याद्वादमञ्जरी AAAAAAAAAMANNA २३१

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306