Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 266
________________ बाह्येऽपि विचिकित्सा तु शास्त्रादेवोपजायते । 'हिंसमानस्य दुःखित्वं दृश्यते यन तावता ।।२३४।। कर्तृर्दुःखानुऽमानं स्या'त्तदानीं तद्विपर्ययः । विषयोऽस्याः फलं यादृक् प्रेत्य कर्तुस्तथाविधम् ।।२३५।। हिंसा क्रियाविशेषत्वात्सूते शास्त्रोक्तदानवत् । य एवमाह तस्याऽपि गुरुस्त्रीगमनाऽऽदिभिः ।।२३६ ।। सुरापानादिभिश्चापि विपक्षैर्व्यभिचारिता । विरुद्धता च यादृग्धि दानैस्तादृक् फलं भवेत् ।।२३७ ।। विधिगम्यफलाऽवाप्तिरदुःखात्मकता तथा । न च या सम्प्रदानस्य प्रीतिस्तादृक् फलं श्रुतम् ।।२३८ ।। . दातुस्तेन हि दृष्टान्तः सांध्यहीनः प्रतीयते । । 'सम्प्रदानं च दाने ते विषयः कर्म हिंसने ।।२३९ ।। वैषम्यं' सम्प्रदाने त पक्षस्त्वेतद्विरुद्धता । प्रीयते सम्प्रदानं हि देवतेति मतं तव ।।२४०।। ... दृष्टान्ते कर्म दानं चेत्तस्य कीदृक् फलं भवेत् । जपहोमाऽऽदिदृष्टान्तात्परपीडाऽऽदिवर्जनात् ।।२४१।। चोदितत्वस्य हेतुत्वाद्विरुद्धाव्यभिचारिता । विहितंप्रतिषद्धत्वे मुक्त्वान्यन्न च कारणम् ।।२४२।। धर्माऽधर्मावबोधस्य तेनायुक्तानुमानगीः । अनुग्रहाचाधर्मत्वं पीडातश्चाप्यधर्मता ।।२४३।। वदतो जपसीध्वादिपानादौ नोभयं भवेत् । कोशता हृदयेनाऽपि गुरुदाराऽभिगामिनाम् ।।२४४।। भूयान् धर्म:प्रसज्येत भूयसी ह्युपकारिता । अनुमानप्रधानस्य प्रतिषेधाऽनपेक्षिणः ।।२४५।। (२४० स्याद्वादमञ्जरी

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306